पृष्ठम्:तत्त्वसङ्ख्यानम्.djvu/८८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्वतन्त्रभेदात् द्विविधं तत्त्वमिति स्वतन्त्रतत्वस्य प्राधान्यात्तदेवादा बुद्दिष्टम् । उद्देशेनैव लक्षणञ्च लब्धम् । अतएवादौ तन्निर्दिशति । ॥ खतन्त्रो भगवान्विष्णुः ॥ उक्तदिशान्याय्यत्वादित्यर्थः । इति शब्दः स्वतन्त्रमस्वतन्त्रञ्चेत्यनेनोक्त विभागसमर्थनपरिसमाप्तौ वर्तते । स्वतन्त्रतत्वस्य प्रथमोद्देशे निमित्तमाह ॥ स्वतन्त्रतत्वस्येति । उद्दिष्टमिति । प्रथमवाक्ये । ननु उद्देशस्य लक्षणोक्त्यर्थत्वादुद्देशानन्तरं लक्षणानुक्तिरनुचितेत्यत आह । उद्देशे नैवेति । लक्षणञ्वेति । स्वसत्तादौ परानपेक्षत्वरूपमित्यर्थः । अत एवेति । प्राधान्यादेवेत्यर्थः । श्री–एवंतर्हि स्वतन्त्राखतन्त्रभेदेन तत्वद्वैविध्यकथनमपि व्यर्थ प्रयोजनाभावादित्यत आह । परतन्त्रप्रमेयमिति । आयत्ततया अधीन तया । “अधीनो निश्धआयत्त' इत्यभिधानात् । सृष्टिस्थितिनियमनादा विति शेषः । वक्ष्यतीति ॥ ‘वृष्टिस्थितिःसंहृतिश्च'त्यादिना। विष्णु नास्य समस्तस्य समासव्यासयोगतः ? इति प्रकरणान्ते परतन्त्रप्रमेयस्य सृष्टयादिविषये स्वतन्त्रभूतविप्रावधीनत्वस्योक्तत्वादित्यर्थः । यद्यप्यत्र परतन्त्रप्रमेयस्य स्वतन्त्रप्रमेयभूतविष्ण्वधीनत्वमेवोक्तम्। नतु तज्ज्ञानस्य मोक्षसाधनत्वम् । तथापि 'य एतत्परतन्त्रन्तु सर्वमेव हरेः सदा । वश मित्येव जानाति संसारान्मुच्यतेहि सः’ इति तत्त्वविवेकान्ते उक्तप्रकारेण तज्ज्ञानस्य मोक्षहेतुत्वमप्यत्राभिप्रेतमिति द्रष्टव्यम् । अन्यथेति । तज्ज्ञानस्य निःश्रेयसासाधनत्व इत्यर्थः । तत्त्वसङ्कयानं तत्त्वपरिगणनम्। ननु स्वतन्त्रतत्त्वस्यादावुद्देशे किं निमित्तमित्यत आह । स्वतन्त्रतत्त्वस्येति। ननु उत्तरत्र स्वतन्त्रतत्वं निर्दिश्यते । तत्कथम् । लोके लक्षणमुक्त्वा निर्देशोदृष्टः नान्यथा। अतो लक्षणाकथनान्न्यूनता इत्यत आह । उद्देशे नैवेति । यत् खसत्तादौ खयैव तन्त्रं अधीनं नतु परापेक्षे तत्खतन्त्र मिति संज्ञानिर्वचनेनैव लक्षणं लब्धमिति न न्यूनतेत्यर्थः । इदमुप