पृष्ठम्:तत्त्वसङ्ख्यानम्.djvu/९७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

टी-यथा भावेषु स्वतन्त्रतत्वं प्रविशति तथा विभागः क्रियतामिति चेत् नैवं शङ्कयम् । तद्धि प्रधानतया सर्वविविक्तमेव वेदितव्यम् । अन्यथा द्विविधं तत्त्वम् । भावोऽभावश्च । भावो(पि) द्विविधः । नित्योऽनित्यश्च । नित्यो द्विविधः । चेतनोऽचेतनश्च । चेतनोऽपि द्विविधः । स्वतन्त्रोऽखतन्त्रश्चेति कर्तव्यम् । एवं सति न प्राधान्येन प्रतिपत्तिःस्यात् । भगवद्यतिरिक्तस्य सर्वस्याप्यस्वातन्त्र्य प्रतीतिर्नस्यात् । अस्मिन्पक्षे स्वतन्त्रस्य भावत्वं न विदितं स्यादिति सममेवेतिचेन्न । पुरुषार्थोपयोगानुपयोगाभ्यां विशेषात् । अभावा दीनां नित्यत्वाद्यनुक्तिश्च समैव । तस्माद्यथान्यासमेवास्तु । इति ध्येयम् । व्याघातादिति । भावभिन्नस्य अभावतया पुनरभाव भिन्नत्वाभिधाने व्याघातः । तथा अभावभिन्नस्य भावतया पुनः भाव भिन्नत्वाभिधाने व्याघातादित्यर्थः । । भावलक्षणेति । प्रथमप्रतीतौ अस्तीत्युपलभ्यते यः सः भाव इति भावलक्षणाक्रान्तत्वात् स्वतन्त्रतत्वं भाव एवेत्यर्थः । सर्वे वाक्यं सावधारणमिति न्यायेन भावाभावौ द्विघेतरत् इति वाक्यं सावधारणं तञ्चावधारणं द्विधेत्यनेन संबध्यते नतु परतन्त्रार्थयेके तदित्यादिना । तथा च स्वतन्त्रतत्वस्य भावत्वाङ्गीकारे नकोऽपि दोष इत्याशयेनाह । परतन्त्रमिति । न पुनः परतन्त्रमेवेति। येन भावस्य परतन्त्रप्रभेदत्वेन स्वतन्त्रतत्त्वस्य विष्णोः भावत्वं न स्यात् रा-शङ्कते ॥ यथेति । तद्वीति । स्वतन्त्रतत्त्वमित्यर्थः । । अन्यथेति । स्वतन्त्रतत्त्वस्य भावत्वार्थकविभागकरणेतु इति कर्तव्य मित्यन्वयः । अस्त्वेवं तथापि का हानिरित्यत आह । एवमितीति । भावत्ववन्नित्यत्वचेतनत्वयोरपि लाभायोक्तं नित्योऽनित्य इत्यादि विभाग द्वयम् ॥सवस्यापीति। उक्तविभागे भगवदन्यचेतनमात्रस्यैवास्वातन्त्र्य प्रतीतेरिति भावः ॥ शङ्कते । अस्मिन्पक्ष इति । मूलकृदुक्तविभागपक्ष