पृष्ठम्:तत्त्वसङ्ख्यानम्.pdf/19

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तत्त्वसङ्खयान्टीका 3. इति सकलमच्छास्त्राणामविप्रतिपन्नोऽर्थः । इदश्चावान्तरानेकभेदभिन्नस्य जगतो विज्ञानमपेक्षत इति जगदपि तथाऽवगन्तव्यम् । तदिदं प्रधानाङ्गभूतं तत्वद्वयं शास्त्रे विक्षिप्य प्रतिपादितं शिष्यहिततया सङ्गृह्य प्रतिपादयितुं प्रकरणमिदमारभते भगवानाचार्यः । श्री विजयीन्द्रतीर्थार्गः ॥ मोक्षेोपायत्वप्रतिपादनायावगन्तव्य इत्युतम् । अतः एव मुमुक्षुणेत्याह ॥ इदश्चेति । जगदुदयादिनिमित्तत्वप्रकारकपरमात्मज्ञानमित्यर्थः। अवान्तरेति । अशेषजगद्रुतिधर्मव्याप्यानेकवैधर्म्यरूपभेदवत इत्यर्थः । एवञ्च जगतो विज्ञानान्वये भेदस्य विशेषणत्वेन वैधम्र्यप्रकारकज्ञानविषयाभूतजगदुदयादिनिमित्तत्वेन परमात्मज्ञानं मोक्षसाधनमित्यपि सूचितं भवति । अत एव * भगवान्*द्विधेतर ? - दित्यादिना विशेषरूपेणापि जगद्विभजते-- विज्ञानमपेक्षत इतीति । अननुसंहितोपाधे'रुपहत'प्रत्ययायोगादिति भावः । तथेति । अवान्तरानेकभेदवत्त्वेनेत्यर्थः ॥ श्री रोट्टि वेङ्कटभट्टाः । अपरतत्वविवेकेनेत्यत आह ----- इदं चेति । इदं = परमात्मज्ञानम् | अवान्तरेति। उदयादीनां'क्क्ष्यमाणरीत्या प्रतिनियतत्वादिति भावः । अपेक्षित इति । निमित्तज्ञानस्य नैमित्तिकज्ञानाधीनत्वात्, अत आह--तथेति । अवान्तरानेकमेदभिन्नत्वेनेल्यर्थ: । नन्वेतच्छास्त्रीयमधिकार्यादि नास्य ग्रन्थस्यारम्भणीयतां प्रथोऽजयतीत्यत आह--तदिदमिति। प्रधानभूतमङ्गभूतं च तत्त्वमित्यर्थः ॥ प्रकरणमिति । सर्वत्र प्रकरणस्य शास्रीयाधिकार्यादिनैव अधिकार्यादिमत्त्वम् । अन्यथा प्रकरणमात्रस्यवानारम्भणीयत्वप्रसङ्गादिति भाव । 1. परस्परासमानाधिकरणेत्यर्थः । 2. स्वयोंग्र्यश्वर्यादिगुणवानाञ्चायं इत्यर्थः । 3. धर्मस्य। 4. विशेषणविशिष्टप्रत्ययायोगात्। विशेषधर्मविशिष्टज्ञानायोगादिति यावत् ।। 5. व्यावर्तकधर्मेत्यर्थः । 6. सृष्टिस्स्थितिरित्यादिना एतद्ग्रन्थान्ते भगवत्पादैरिति योज्यम् ।