पृष्ठम्:तत्त्वसङ्ख्यानम्.pdf/20

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्याख्याद्वयोपेता ननु प्रकरणादौ मङ्गलं किमपि कस्मान्नानुष्ठितम्, न तावंत्तदफलमेव, प्रेक्षावह्निरनुष्ठितत्वात् । नापि प्रारिप्सितपरिसमाप्त्यादिव्यतिरिक्तफलम् , नियमेन प्रारम्मे तदनुष्ठानात्; उच्यते - अनुठितमेव भगवता मृङ्गलम् । मानसादेरपि तस्य सम्भवात् । श्री विजयीन्द्रतीथिर्गः । । निबद्धस्यैव नमस्कारादेर्मङ्गलत्वं मन्वानः शङ्कते--नन्विति । प्रेक्षावद्भिरित्यादि । अभ्रान्तकृतिविषयत्वादित्यर्थः । निष्ठार्थस्य 'कृत्यतीतत्वस्य व्यर्थत्वादिति भावः । परिसमाप्त्यादीत्यादिपदेन शिष्यार्थदानाविच्छेदरूपप्रचयगमनपरिग्रहः । प्रारिप्सितपरिसमाप्त्यादिव्यतिरिक्तेति । तादृशसमाप्याद्यफलमित्यर्थः । नियमेनेत्यादि । प्रारब्धपरिसमाप्त्यादिकामनया 'अभ्रान्तिकृतिविषयत्वादित्यर्थः । निबद्धस्यैव मङ्गलत्वं नेत्यभिप्रेत्य परिहरति-- उच्यत इति । श्री वेङ्कटभट्टाः । ग्रन्थनिवेशनमेव मङ्गलानुष्ठानमिनि मन्वानश्शङ्कते -- नन्विति । प्रारिमितसमाप्त्यादिफलकमिति शेषः । प्रारिप्सितपरिसमाप्त्यादिफलकत्वसिद्धयर्थे परिशेषमाह --- न तावदित्यादिना ॥ यद्वा ** मङ्गलं प्रारिप्सितपरिसमाप्यादिफलकें, तदितराफलकन्वे सनेि मफलत्वात्" हत्यभिप्रेतानुमाने विशेष्यविशेषणासिद्धी क्रमेण परिहरति-न तावदित्यादिना । अफलमिति । अभीष्टफलकमित्यर्थः । प्रक्षावद्भिरिति । अश्रान्तैरित्यर्थः । न च सुखाद्यनुभवे व्वभिचार:, स्वरसयुन्दरभिन्नत्वे सतीति विशेषणादिति भावः ॥ नियमेनेति । प्रारिप्सितसमाप्त्यादिव्यतिरिक्तोद्देशेनानुष्ठानादिति भावः । एतेन - यथाश्रुते * आमावैष्णवमेकादशकपालं निर्वपेत्, दर्शपौर्णमासावारिप्सुमान' इति श्रुतिबोधितायां, दर्शादेरारम्मे नियमेनानुष्ठीयमानायामारम्भणीयेट्टी, प्रारिप्सितसमाप्त्यादिव्यतिरिक्तस्वर्गफलिकायां व्यभिचारः, प्रारिप्सितसमाप्युद्देशेनानुष्ठानस्य विवक्षायां, तत एव समाप्तिफलकत्वसिद्धेः परिशेषवैयर्थ्यमिति निरस्तम् । न हि ग्रन्थनिवेशनमेव मङ्गलानुष्ठानमित्यभिप्रत्य परिहरति— उच्यत इति । 1. व्यापारावच्छेदकभूतकालस्येत्यर्थ:। 2. यथार्थज्ञानपूर्वक कृतीत्यर्थः ।