पृष्ठम्:तत्त्वसङ्ख्यानम्.pdf/21

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तत्त्वसङ्खयानटीका तच परमास्तिकत्वादनुमीयते । यचार्य स्वातन्त्र्यादिविशिष्टस्य विष्णोरादित एव सङ्कीर्तनं करोति, किं ततोऽन्यन्मङ्गलं नाम। अन्यपरमपि तद्भक्त थानुष्ठित स्वभावात्संपादयत्येवाखिलमङ्गलानीति । श्री विजयीन्द्रतीर्थाः । । 'मृानसादरपीति ॥ अनिबद्धस्येति शेषः । तथा चानिबद्धस्यापि कायिकादेखिविधस्य मङ्गलत्वसम्भवान्न निबन्धनाभावे मङ्गलकरणाभाव इत्यर्थ: । ननु किं मानं 'तत्कृतमित्यत्रेत्यत अाह -- तञ्चेति ॥ अनुमानं च- भगवान् कृतमङ्गलः, परमास्तिकत्वात्, सत्सम्प्रदायप्रवर्तकत्वात्, सम्प्रतिपन्नवदिति । परिसमाप्तकर्मविशेषत्वादिति वा ॥ नन्वेतावतापि एतद्रून्थारम्भसमये मङ्गलं कृतमित्यत्र किं मानमत आह -- परमास्ति'कत्वादिति । तस्य सत्सम्*प्रदाय प्रवर्तकत्वेन प्रसिद्धेरित्यत्र तात्पर्यादिति भावः । निबद्धस्यैव मङ्गल*त्वमभिप्रेत्याह -- यच्चायमिति । ननु वाक्यार्थप्रतीतिपरस्यास्य कथं मङ्गलतेत्यत आहअन्यपरमपीति । स्वभावात्=सामथ्र्यात्। अखिलमङ्गलानि=समाप्त्य भीष्टानि । श्रीं वॆङ्कटभट्टाः । मानसादेरिति। ग्रन्थे निवेशनातिरिक्तस्य मानसादिमङ्गलानुष्ठानल्यापि सम्भवादित्यर्थः । तथाच ग्रन्थे निवेशनमेव तदनुष्ठानमित्यसिद्धमिति भावः । ननु ग्रन्थे निवेशनमेव तदनुष्ठानमिति न ब्रूमः, किन्तु निवेशनं तद्याप्यमिति । एवञ्च तत्कालीने मगनसादिमङ्गलानुष्ठाने प्रमाणान्तराप्रवृत्त्या ग्रन्थे निवेशनमेव व्याप्यतया प्रमापकं वाच्यम्, व्याप्यान्तरादर्शनात् । तथा च - रूपाद्युफ्ब्ध्येकप्रमाणकस्य चक्षुरादे रूपाद्युपलब्ध्यभावें व्यतिरेकनिर्णय:, सन्देही वा यथा, एवं अन्थनिवेशनैकप्रमाणकस्य मङ्गलानुष्ठानस्य तदभावे व्यतिरेकनिर्णयो 1. मनसा कृतमङ्गलादेरपीत्यर्थः अादिना । कायिकवाचिकयोर्ग्रहः । 2. मानसादिमङ्गलम् । 3. शास्त्रोक्तपारलौकिकस्वर्गनरकादेर्वास्तवत्वनिश्चयादिस्यर्थ: । 4. सदाचारसम्प्रदायप्रवर्तकत्वादित्यर्थ: । इदमपि परमत्वीपपादकम् ।। 5. मङ्गलत्वमिति वादमभिप्रेत्य तदनुसारेणापीत्यर्थः ।। { . तत्वद्वैविध्यबोधनपरमपि । 7. अनितरसाधारणभगवद्गुणबोधकत्वेन तस्याशुभ निवर्तकमङ्गलत्वमपि ।