पृष्ठम्:तत्त्वसङ्ख्यानम्.pdf/23

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तत्त्वसङ्खयानटीका V स्वतन्त्रमस्वतन्त्रञ्च द्विविधं तत्त्वमिष्यते । स्वतन्त्रो भगवान् विष्णुर्भावाभावौ द्विधेतरत् ॥ १ ॥ तत्त्वमनारोपितम् प्रमिनिविषय इति यावत् । तेन तस्य भावस्तत्त्वमित्यादिखण्डनानवकाशः ! श्री विजयीन्द्रतीर्थाः । सामान्यत उद्देशः । द्विविधमित्यनेन विभागः । स्वतन्त्रमस्वतन्त्रमित्यनेन तदेव द्वैविध्यं दर्शितमिति बोद्धज्यम् | ननु - अनारोपितं अारोपाविषयः, भ्रमाविषय इति यावत् । न हि भ्रमाविषयः कश्चित्प्रसिद्धोऽस्तीत्याशङ्कानिरासायाह- प्रमितिविषय इतीति ॥ सर्वाशे प्रमाविषय इत्यर्थः । विवक्षाफलभाह -- तेनेति । तत्पदेनैव तत्पदार्थ श्री वेङ्कुटभट्टाः । शादीना सामान्यविषयोद्देशादिपूर्वकत्वात्। तत्त्वं तावत्सामान्यतो द्विविश्वमित विभज्य स्वतन्त्रं परतन्त्रं चेत्युद्दिशतीत्यर्थः । अनयोर्विभागोद्देशयोः * भावाभावौ द्विधेतर ? दिति करिष्यमाणविशेषविभागोद्देशापेक्षया सामान्यत्वं बोध्यम् । अलक्षितस्य विभागायोगात्, अनुद्दिष्टस्य लक्षणायोगादाक्षेपादेव कथासामान्योद्देशलक्षणे इव तत्वसामान्योद्देशलक्षणे विभागाद्याक्षेपलभ्ये आवृत्या 'तत्वमिष्यत' इति कारिकाखण्डलभ्ये एवेतिभावेन तत्वसामान्यलक्षणमाह-तत्वमनारोपित • मिति ॥ नन्वारोपिते शुक्तिरजतादौ अतिव्याप्त्यभावेऽपि अनारोपिते कूर्मरोमादौ अतिव्याप्तमिदं लक्षणम् । न च यदि कूर्मरोमादिकं न प्रतीतं तदाऽतिव्यासेरज्ञानात्, यदि प्रतीतं तर्हि असत्प्रतीतेरारोपत्वेन लक्षणाभावात्, न कोऽपि दीप इति वाच्यम् | लक्षणे वास्तवातिव्यासे: इतरभेदसाधने वास्तवव्यभिचारपर्यवसन्नत्वेनाक्श्र्य दोषत्वादित चेत्, न। प्रतीतै सत्यां अनारोपितत्वस्य लक्षणत्वेन विवक्षितत्वात् । एवञ्च यदि असत् प्रतीतं, तदाऽऽरोपितत्वेन विशेष्याभावात्, यदि न प्रतीयते तदा विशेषणाभावान्नातिव्याप्तिरिति भावः । तथा च एतत्समानार्थतया तत्वविवेकोक्तस्य तत्वलक्षणस्य साक्षित्वमपि सङ्गच्छत इति भावेनाह-प्रमितिविपय इति यावदिति ॥ एतदेवाभिप्रेत्योक्तं, तत्व