पृष्ठम्:तत्त्वसङ्ख्यानम्.pdf/24

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्याख्याद्वयोपेता ननु शुतिरजतादिक कर्थ न तत्वम्। न हि धर्मी बा रज तत्वं वा न प्रमेयम् । नापि तयोस्सम्बन्धः । शुक्तिव्यक्तौ रजतत्वस्य भी विजयीन्द्वतीर्था: { निर्वचनम् । म्वतन्त्रस्यान्याधर्मतया तत्त्वतया तत्त्वं न स्यादिति खण्डनानवकाश इत्यर्थः । तत्त्वंपदार्थयोरुद्देशविधेयताऽऽदिशब्दार्थः । सिद्धान्तिनं नैयायिक मत्वा शङ्गते - नन्विति । शुतिरजतादेरपि देशान्तरे सर्वाशप्रमाविषयत्वादेिति भावः । प्रमाविषयत्वमुपपादयति---न हीति । तयोस्सम्बन्ध इति । प्रमेयमित्यनुषङ्गः । स: = सम्बन्धः । सिद्धान्ती स्वस्मिन्नैयायिकत्वभ्रान्ति वारयति - स्यादिदमिति । अभ्युपगच्छतां नैयायिकानामिति श्री वेङ्कटभट्टाः । विवेकटीकायां 'अनारोपित हि तत्व'मित्यादिना साक्षादसत्वादिभकारकप्रमाविषये तच्च प्रमेयमिति चैकोऽर्थ ' इत्यन्तेन । प्रमयास्तीति विधीयमानत्वं विवक्षितम् । तेन परम्परया ईश्वरज्ञानानुव्यवसायादिममाविषये साक्षादसत्वादिप्रकारकप्रभाविषये च शुक्तिरजतादौ नातिव्याप्तिरिति ध्येयम् । तेनेति । यत् – “ तत्वानुभूतिः प्रमेति ? प्रमालक्षणं खण्डयता खण्डनकरेण तत्वानुभूतिः प्रमेत्युक्तमयुक्तम् । तत्त्वशब्दार्थस्य निर्वतुमशक्यत्वात्, तस्य भावः - तत्वमुच्यते प्रकृते च तच्छब्दार्थः, न चात्र प्रकृतं किञ्चिदस्ति, यत्, तच्छब्देन परामृश्येते.त्यादिना तत्वशब्दस्य योगार्थमाश्रित्य दृषणमुक्तम्, तस्य तत्वशब्दम्य अनारोपिते रुढवीकारेणानवकाशादित्यर्थः । यच तत्वशब्दस्य रूढिपक्ष खण्डयता खण्डनकृतोक्तम् - 'अथोच्येत - अवयवार्थचिन्तनया दृषणाभिधानं इदं त्यज्यताम् । यतोऽयं तत्वशब्दः स्वरूपमात्त्रवचने इति स्वरूपे रूढिमाशङ्कय कथ च विफ्र्ययादेर्निरासः । तथाहि— यो रजतमितिप्रत्ययः सोऽपि स्वरूपबुद्धिर्भवत्येव, न हि धर्माँ वा रजतत्वं वा न स्वरूपम्, नापि तयो: प्रतिभासमानस्सम्बन्धः न स्वरूपमिति युक्तम् । समवायो र्हि तयोस्सम्बन्धः प्रतिभाति । स तत्स्वरूपमेव । सत्यं - समवायः स्वरूपः, स एव शुक्तिव्यक्तौ रजतत्वस्य नास्तीति चेत्, न-तत्रासत्वेऽपि स्वरूपतया