पृष्ठम्:तत्त्वसङ्ख्यानम्.pdf/25

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तत्त्क्सङ्ख्यानटीका Q स नातीति चेत् मा भूत्। न हि गृहे देवदतो नास्तीत्येतावता न प्रमेय इति । स्यादिदमारोपितस्यान्यत्र सत्तामभ्युपगच्छतां दूषणम् । अत्यन्तासदेव रजत दोषवशच्छुतिकायामारोयत इति वाद तु नाये दोषः । श्री विजयीद्वतीय: । शेषः ॥ अत्यन्तासदिति । नन्वत्यन्तासद्रजतं न प्रतीयेत, 'तत्सामग्रीविरहादेिति चेन्न । 'किशेषादर्शनमेदाग्रहशुक्तीन्द्रियसन्निकर्षादिरूपाया दोषघटेिताया : सामग्रयास्सत्त्वात्। न च रजतसाक्षात्कारत्येन रजतेन्द्रियसंयोगत्वेन कार्यकारणभावावधारणात्, प्रकृते च रजतसंयोगाभावात कथे रजतसाक्षात्कारस्स्यादिति वाच्यम् । 'रजतजन्य एव साक्षात्कारे रजतेन्द्रियसंयोगस्य कारणत्वात् । प्रकृते च तदभावात् । अन्यथा अन्यथाख्यातिवादेऽप्यगतेः' । तहीन्यथाख्यातिरेवास्तु, अविशेषादिति चेन्न, उक्तविशेषसामग्रीबलेन प्रमाणसिद्धरजतक्लिक्षणरजतपैव भ्रमविषयतया आवश्यकत्वेनान्यथाख्यातिवादस्य विशेषात्' । अत एव *एतावन्तं कालं शुक्तिरेव अत्यन्तासद्रजतात्मना प्रत्यभादि '- त्युत्तरकालपरां'मशॉऽप्युपपद्यते । किख सत एव रजतरजतत्वतद्वैशिष्ट्यस्य भाने अभ्रमत्वप्रसङ्गात् । किशेप्य'निष्ठात्यन्ताभावप्रतियोगिमकारकत्येन भ्रमत्वोपपत्तिरिति चेन्न । सत्त्वेन रजतादेः स्वात्यन्ताभावसमानाकालीनत्वविरोधात्' । fi +ୱିତ୍ୱ: । अन्यत्र वृत्तः, न हि देवदत्तो गृहे नास्तीति स्वरूपं न स्यादिति । तदेतदर्थतोऽनूष्य तुस्यन्यायतया प्रसक्तमिदं दूषणं नास्माकं, किन्तु वैशेषिकादीनामेवेत्याह--* नन्कित्यादिना नायं दोष ? इत्यन्तेन ॥ सम्बन्ध इति । न प्रमेय इति वर्तते । 1. असतो वस्तुत्वाभावेन इन्द्रियस्य तत्सन्निकर्षाभावादित्यर्थः । 2. रजतत्वप्राहकविवधर्मादर्शनम् । मुक्तिरूप्ययोर्भोदेनाग्रहेत्यर्थः ॥ 3. विषयस्यापि ज्ञानकारणत्वं विषयतया बोध्यम् ।। 4. गत्यभावात् ।। 5. भेदात् । 6. सार्वजनीनः स उपपद्यत इत्यर्थः । 7. अधिष्ठानभूतशुक्तीत्यर्थः।। 8. सतः पदार्थस्य अत्यन्ताभावस्यैवाऽप्रसिद्धया तत्समानकालस्यैवाभावात् तवृत्तित्त्वासम्भवात् ॥ 2