पृष्ठम्:तत्त्वसङ्ख्यानम्.pdf/26

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१० व्याख्याढूयोपेता एतेन भाविपाकरागः कुम्भः शयामतादशायां रक्तपेित्तिना रक्ततयेोपलभ्यमानस्तत्वं स्यादित्यपि परास्तम् । भाविनः प्रमेयत्वेऽपि पूर्वस्य भी विजयन्तीथ: । स्वप्रतियोगिकाभावकालान्यकाललेनैवाविरोधकल्पनात्। प्रागभावप्रध्वंसाभावयोरेव तथा विशेषकल्पनायां गौरवात् । संसर्गाभावमात्रे प्रतियोगिकालान्यकालत्वेन लाघवादविरोधेनावस्थितिकल्पनात् । एवञ्च शुक्तिसम्बन्धतया प्रतीतस्य रजतादे?नन्यगत्याऽत्यन्तासत्त्वं त्वयापि वाच्यम् । तथा च नात्र रजतत्वमित्यादिबाधज्ञानरूपरजतत्वाद्यभावप्रत्यक्षस्य अाकस्मिकत्वपरिहाराय तत्प्रतियोगिज्ञानरूपं कारणमवश्यमभ्युपेयम् । कैिश्च भ्रमविषयस्य रजतस्य देशान्तरे सत्त्वं न भ्रमयथानुपपत्या कल्प्यम्, नापि बाधाऽन्यथाऽनुपपत्त्या, तयोः रजतदेशान्तरसत्त्वाविषयकत्वात्। न च सद्रजताज्ञानदशायामारोपासम्भवेन तदुपस्थितेरावश्यकत्वात्तदेवारोप्यत इति वाच्यम् । उपस्थितेरकरणत्वात् । न चातिप्रसङ्गः; तदुपस्थितिजनितसंस्कारस्यैव स्वरूपसतः तद्बोधकसमवहितस्य भ्रमकारणत्वाङ्गीकारेणातिप्रसङ्गाभावात् । न चैवं भ्रमस्य स्मृतित्वापतिः ; संस्कारध्वंसवदस्मृतित्वोपपतेः । संस्कारमात्रासाधारणकारणकस्यैव स्मृतित्त्रादिति भावः । भावीति ॥ श्यामतादशायां प्रतीयमानस्य रक्तरूपस्य भाविरक्तरूपाभेदे प्रमाणाभावादित्याशयः ॥ धी वेङ्कटभट्टाः । यदप्युक्तम्, यद्यथाभूतं प्रतीयते, तत्तथा परमार्थतो व्यवस्थितं तत्वमुच्यत इति यत्तदित्यादिघटितं तत्वलक्षणं खण्डयता खण्डनकृता भाविपाक इत्यादि, तदसत्पक्षे न प्रसरतीत्याह-एतेनेति ॥ एतेनेत्यस्यातिदेशमाहभाविन इति । पूर्वस्येति । पूर्वप्रतीतस्येत्यर्थः । अयं भावः--किमत्र रागस्य तत्त्वत।। ऽऽपाद्यते ? धर्मिणः कुम्भस्य वा ? अद्येऽपि - भाविनो वा ? पूर्वमारोपितस्य वा ? नाद्यः---भाविनो रागस्य रक्तपित्तदोषजन्यपूर्वारोपविषयत्वेन तत्त्वताया इष्टत्वात् । न द्वितीयः - गुर्वारोपविषयस्य अत्यन्तासस्चक्रेण तत्त्वतापादकाभावात् । नान्त्यः- धर्मिणः सर्वैरपि सत्यताङ्गीकारेण तत्त्वता भावाऽऽपदकभावादिति ॥