पृष्ठम्:तत्त्वसङ्ख्यानम्.pdf/27

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तत्त्वसङ्खयानटीका तथा (त्वाभावात् ।) भावाभावात् । धर्मिणस्तथाभावाङ्गीकारादिति । तद्विविधम्। खतन्त्रमखतन्त्रै चेतीति-इतिशब्दाध्याहारेण योज्यम् । अन्यथा स्वतन्त्रम्स्वतन्त्रं च तत्त्वं प्रत्येकं द्विविधमिति प्रतीतिस्स्यात् । स्वरूपप्रमितिप्रवृत्तिलक्षणसत्तात्रैविध्ये परानपेक्षं स्वतन्त्रम् । श्री विजयीन्द्वतीथः । तथात्वाभावान्। तत्रावच्छेदेन सर्वाशप्रमाविषयत्वाभावात्। अन्यथेति । (इतिपदाध्याहाराभावे) स्वतन्त्रद्वैविध्यस्य 'प्रमाणबाधितत्वं इतिशब्दाप्याहारे बीजमिति हृदयम् । स्वतन्त्रं प्राधान्याल्लक्षयति * - स्वरूपेति ॥ स्वनिष्पत्ति-स्वप्रमिति श्री वेङ्कटभट्टाः । एवमाक्षेपात् कारिकाखण्डाद्वा लब्धै तत्वसामान्यलक्षणमास्याय विभागोद्देशपरं वाक्य व्याचष्टे -द्विविधमिति । संज्ञानिरुक्तिरेव तयोलैंक्षणमिति भावेन निर्वक्ति -- स्वरूपेति । परानधीनसत्ताकत्वं, तदधीनसत्ताकत्वं * चेत्यर्थः, तेन* एकविधसत्ताघटितस्यैव लक्षणत्वसम्भवात् सत्तान्तरगभैत्वे वैयथ्र्यमिित परास्तम् । लक्षणस्य सत्तासामान्यगर्भत्वात्, सतायाः त्रिविधसत्तानु गतिसूचनाय त्रैविष्योक्तेः ।

  • एतेनैवापेक्षायाश्चेतनधर्मत्वेन *यथाश्रुते स्वतन्त्रलक्षणे अचेतनेऽतिव्याप्तिर्विवक्षितेत्यस्वतन्त्रमात्रेऽतिव्याप्तिरिति परास्तम् । अधीनतया एव अपेक्षापदेन विवक्षितत्वात् । अत एव परानपेक्षत्वतदपेक्षत्वयोरेव लक्षणत्वसम्भवे शेषयैर्थ्यमिति निरस्तम् । यथोक्तविशेषणविशेष्यभावे वैयर्थ्याभावात् । न च परपदवैयथ्र्यम्, भगवत्स्वरूपभूताया अपि सत्ताया 'विशेषबलेन स्वाधीनताया

1. एवमेवाद्वितीय (छा ६-१-२) मित्यादिप्रमाणत्यर्थ:। 2. आदाविति योज्यम्। 3. टीकोक्तलक्षणवाक्यस्य निष्कृष्टोऽर्थः । 4. लक्षणवाक्यार्थकथनेन ।। *. पराऽनधीनेति कथन्नर्नव ।। 6. पराऽनपेक्षत्वरूपे ।। 7, बलेनापीत्यर्थः ।