पृष्ठम्:तत्त्वसङ्ख्यानम्.pdf/28

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

R व्याख्याहूयोपेता श्री जिीन्द्रतीक्षः ॥ स्वप्रवृत्त्यन्यतमे परानपेक्षमित्यर्थः । 'अत्र च कार्यप्रपञ्चस्य स्वनिष्पतौ स्वप्रमितौ स्वप्रवृत्तै च परापेक्षत्चात्, 'तदन्यस्य 'चेतनत्याचेतनस्य' वा 'स्वप्रतैि स्वप्रवृत्तौ च परापेक्षत्वात्।। *अव्यक्ततत्वस्यापि स्ववृतियावद्धर्मक्तायाः स्वतन्त्रविष्णुप्रमिति विषयत्वात्, 'तत्प्रवृत्तिविषयत्वाच्च परापेक्षता ।। * स्वतन्त्रे विष्णौ तु नैवम्, तस्य स्ववृत्त्यशेषधर्मवतया स्वान्यप्रमितिवषयत्वाभावात्, स्वान्यप्रवृत्त्यविषयत्वाश्चेति नाति'प्रसङ्ग इति भावः । "एवञ्चोक्तव्यतिरेकेण अस्वतन्त्रलक्षणमपि स्पष्टं द्रष्टव्यम् ॥ धी वेङ्कटभट्टाः । असम्भवादिप्रसङ्गात् । उक्तं हि - - ‘दिशः सर्वत्र पुरुषः स्वतन्त्रः कालनित्यतां इत्यादिषु स्वसम्बन्धो यथेति । 'तत्वविवेकटीकायां तु 'स्क्सप्तादौ स्वाधीन न तु परापेक्ष'मित्यत्र आदिपदं लक्षणत्रयसूचनाय स्वतन्त्रपदस्य स्वाधीनमिति पदार्थमुकृ| तस्य परतन्त्रलक्ष्यादावतिव्याप्तत्वात् 'न तु परापेक्ष'मित तात्पर्षमुक्तम् । ततश्च परानबीनसत्तासामान्यकत्वादि 'कमेव लक्षणलये' द्रष्टव्यम् । l. एतदेव विवृण्वन्, अस्वतन्त्रलक्षणविवरणमपि करोति--अत्रत्यादिना द्रष्टभ्यमित्यन्तेन । 2. जन्यस्य ।। 3. अञ्जन्यस्य, नित्यस्येति भावः *' नित्यो नित्यानां चेतनश्चेतनानां " इत्यादिश्रुतिस्मृत्यादयः चेतनानां नित्यत्वे मानम् ।। *. अस्य नित्यत्वाऽनित्यत्वं ‘ नित्यानित्यविभागने " त्यादिना भगवत्पादा एब वक्ष्यन्ति। वाशब्दश्चार्थे ।। 5. नित्यस्य सृष्टेरभावात् निष्पत्ताविति नोक्तम् ।। 6. मूलप्रकृतेः तदभिमानिश्रीतत्वस्य चेत्यर्थः । 7. विष्णुप्रवृत्तीत्यर्थः । 8. स्वतन्त्रे एतदन्यतमोऽपि नेत्याह- स्वतन्त्र इति । 9. अस्वतन्त्रलक्षणस्य स्वतन्त्रे, स्वतन्त्रलक्षणस्यास्वतन्त्रे चातिप्रसङ्गो नेत्यर्थः ।। 10. एतेन अस्वतन्त्रलक्षणपरं *' परापेक्षमस्वतन्त्र " मिति वाक्यं विवृतं भवतीत्याह--एवञ्चेति । स्वतन्त्रलक्षणाङ्गीकारेचेत्यर्थः ॥ 11. तत्वविवेकटीकायां ‘स्वाधीन" मित्युक्तिविरोध परिहरति-तत्वेत्यादिना। 17. आदिना पराधीनसत्ताकत्वमिति अस्वतन्त्रलक्षणपरिग्रहः ।। 13. स्वरूपप्रमितिप्रवृत्तिभेदेन त्रयमित्यर्थः ।