पृष्ठम्:तत्त्वसङ्ख्यानम्.pdf/29

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तत्त्वसङ्खयानटीका R परापेक्षमस्वतन्त्रम् । तदुपपादनायोक्तं ‘इष्यत ? इति । प्रामाणिकैरिति शेषः । तथाहि यदि तत्वमेव नास्तीति ब्रूयात् तदा प्रत्यक्षादिविरोधः । भ्रान्तिस्सेति चेन्न, बाधकाभावात् । न च निरधिष्ठाना श्री विजयीन्द्रतीथः । । नन्वेवंविधे तत्वे मानाभाव इत्याशइायामाह-तदुष्पपादनेति ॥ भ्रान्ताभ्युपगमेऽपि नैवंविधतत्त्वसिद्धिरित्यत अाह -- प्रामाणिकैरितीति । अनेन प्रमाणसूचनद्वारा अर्थात्परीक्षापि कृतेति बोद्धव्यम् । तथाहीति । स्वातन्त्र्यपारतन्त्र्याभ्यां तत्त्वद्वैविध्यं नाभ्युपगच्छति '; स प्रष्टव्यः--किं तत्त्वमेव नास्ति, स्वातन्व्यादिना द्वैविध्यं कुत इति वा ? तदस्तित्वेऽप्यनेकं नेति वा ? अनेकत्वेऽपि सर्वमेव स्वतन्त्रमिति वा ? सर्वमेवाऽस्वतन्त्रमिति वेति? । तत्र न तावदाद्य इत्याह - यदि तत्वमेव नेति ॥ प्रत्यक्षेति । विषये विना प्रत्यक्षस्याप्रसारात्, घटोऽयमिति प्रमेयमिति 'तत्वताग्राहक'प्रत्यक्षादिविरोध इत्यर्थः श्री वेङ्कटभट्टाः ॥ 'इप्यत" इत्युक्तार्थे प्रमाणसूचनेन प्रकारान्तरनिरासात्परीक्षापि सूचितेत्याह -तदुष्पपादनायेति ॥ तत्र सामान्यलक्षणपरीक्षा प्रागेव 'कृता, विभागोद्देशपरीक्षां करोति - तथाहीति । स्वतन्त्राऽस्वतन्त्रभेदेन तत्वद्वैविध्यमनङ्गीकुर्वाणः प्रष्टव्यः, तदनङ्गीकारः किं सर्वशून्यवादिरीत्या, तत्त्वयैवाभावाद्वा, तत्सद्वावेऽपि विज्ञानवादमायावादरीत्या, तस्यानेकत्वाभावाद्वा, अनेकत्वेऽपि स्वातन्त्र्येण पारतन्त्र्येण वा ऐकविध्येन द्वैविध्यासंभवाद्वा, प्रकारान्तरेण द्वैविध्यसम्भवाद्वा, त्रैविध्यादिसम्भवाद्वेति | तत्राद्यं दूषयति --- यदि तत्त्व• मेवेतेि ॥ प्रत्यक्षादीतेि ॥ सन् घट इत्यादिप्रत्यक्षविरोध इत्यर्थ: ॥ 1. प्रत्यक्षस्य, इन्द्रियार्थसन्निकर्षस्यैव अञ्जननात्, विरोधस्स्यादित्यत्र हेतुरयम् । 2. तत्वताग्राहकति-प्रत्यक्षस्वरूपकीतंनमिदम् ।। 3. प्रत्यक्षादीति-जायमानप्रत्यक्षत्यर्थः । अादिना परामर्शसंग्रहः । एतेन प्रमाणबाध उक्त इति ध्ययम् ।। 4, ‘* तत्वमनारोपित मित्यादिना कृतेत्यर्थः ।