पृष्ठम्:तत्त्वसङ्ख्यानम्.pdf/30

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्याख्याद्वयोपेता भ्रान्तिरस्ति । नापि निरवधिको बाधः । नास्त्येव तत्वमित्यस्यार्थस्य प्रमितत्वाऽप्रमितत्वयोव्र्याघातश्च । यदि चैकमेव तत्त्वं, तदा मेदोपलम्भविरोधः ! तद्भान्तितायां च बाधकं वाच्यम् । तच्चान्यत्र श्री विजयीन्द्रतीर्थाः । न च निरधिgानेति । ननु- निरधिष्ठानभ्रान्तिमभ्युपगच्छता तत्र आन्तित्वं "केनचित् अवसेयम् ? उत न? । आचे अधिष्ठानज्ञानलैव अमत्वज्ञानहेतुतापतौ भ्रान्तेर्निरधिष्ठानत्व' भज्येत। द्वितीये भ्रान्तितत्वबोधकप्रमाणाभावेन प्रमात्वमेवाङ्गीकृतं स्यादित्याशयः । नन्वप्रमात्वं बाधादेव सिद्धयतीति चेत् तत्राह - नापि निरवधिक इति । बाधमप्रमात्वसाधकं वदन् प्रष्टव्यः - स किं निरवधिकः ? अहोस्वित्सावधिकः ? । अाद्ये - प्रमाणाभावः । सति प्रमाणे च *तस्यैव ‘तत्त्वताप्रसङ्गात् । द्वितीये- स बाधः किं भवन्मात्रसिद्धः ? उत प्रमाणसिद्धः ? । आद्ये--तस्य उत्तरानर्हत्वात्। द्वितीयेन हि घटादितत्वविषयकः *तथाविधो बाधो दृश्यत इति भावः | नास्त्येवेति । 'तत्वाभावस्य प्रमितत्वे तयैव तत्वतापत्तैौ तदभावावगाहिनोऽप्रमाणत्वेन श्री वेङ्कटभट्टाः । बाधकाभावादिति | 'प्रमाणान्तरस्य प्रत्यक्षमूलत्वेन तद्भाधाक्षमत्वादिति भावः । भ्रान्तिबाधयोरङ्गीकारेऽपि तदन्यथानुपपत्त्या तत्वसिद्धिरित्याह---न चेति । यत्र रूपान्तरारोपस्तदधिष्ठानमुच्यते । तद्विनैवेत्थमित्येवं नारोपः कचिदीक्षितः ॥ इति भावः । नापीति । रूपान्तरप्रसक्तौ हि सोऽवधिर्यत्र बाध्यते । तें विना नेत्थमित्यव न कचिठ्ठाध ईक्ष्यते ॥ इति भावः ॥ प्रमितत्वाप्रमितत्वयोरिति ॥ यदि प्रमितं तर्हि प्रमितिविषयस्यैव तत्त्वताभ्युपगमेन तत्त्वताऽस्तित्वस्यैव तत्त्वतासिद्धेः, यद्यप्रमितं तद्विपर्येयस्य " 1. केनचित्-हेतुनेत्यर्थः । 2. निहंतुकत्वम् ।। 3. निरवधिकबाधस्यैव । 4.प्रमाणसिद्धत्वात्तस्यति भावः ।। 5. प्रमाणसिद्धः । 6. व्याघातमुपपादयति तत्वा भवेत्यादिना ।। 7. यदि जातस्य प्रत्यक्षस्य प्रमाणान्तरेण बाधः, तदा जातः प्रत्ययो भ्रम इति शक्यं वक्तमिति भावेनाह--प्रमाणेति ।