पृष्ठम्:तत्त्वसङ्ख्यानम्.pdf/31

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तत्त्वसङ्खयानटीका የሤ निरस्तम् ॥ यदि वा सर्वमेव स्वतन्त्रं स्यात्, तदा पारतन्त्र्यादिप्रतीतिविरोधः । नित्यसुखादिप्रसङ्गश्च । यदि वा परतन्त्रमेव तत्त्वं भवेत्, तदाऽनवस्थितेरसम्भवाच्च न कस्यापि सत्तादिकं स्यात् । अागमविरोधश्च । श्री विजयीन्द्वतीथः ॥ 'ततोऽर्थसिद्धिविरोधः; प्रमाणस्यैवार्थसाधकत्वनियमात् । प्रतियोगिनस्तत्वस्य प्रामाणिकत्वात् तदभावबोधकस्य प्रमाणविरोधी व्याघात इत्यर्थ: । द्वितीयं निरस्यति--यदि चैकमेवेति । भेदोपलम्भः = भेदप्रमितिः। तच्चान्यत्रेति ॥ भेदोपलम्भस्य प्रमात्वे तद्विषयेण तत्वेनावश्यं भाव्यम् । तदप्रमान्वे बाधकं वाच्यम् । तच्च न, प्रत्युत प्रमाण एव विचित्रव्यवहारानुभवयोरबाधितयोस्सत्वादिति निरस्तमित्यर्थः । तृतीयं दूषयति - यदि चेति । नित्यसुखादीति ॥ अादिपदात् ईश्चैरैकनियतधर्मपरिग्रहः । प्रसङ्गश्च ॥। घटो यदि स्वतन्त्रस्स्यात् नित्य सुखी स्यात्, नित्यज्ञानवान् स्यात्, ईश्वरवत् इत्येवमगदिः । न चाप्रयोजकता, स्वातन्त्र्यस्य नित्यसुखादिव्याप्तत्वावधारणादिति श्री वेङ्कटभट्टाः ॥ ... - - - SLSLSSqSqqLLLLLSSSSLLSSJSSqqqS बाघावश्यम्भावात् तत्वातिताया एव सिद्धव्याघात इति भावः । द्वितीये निरस्यति - यदि चैकमेवेति । तद्रान्तितायामिति । तन्द्रान्तितायामङ्गीकृतायामप्रमात् । बाधकं वाच्यमित्यर्थः । तच्चेति । सापेक्षत्वात्सावधेश्च तत्वद्वैतप्रसङ्गतः । एकाभावान सन्देहान्न रूपं वस्तुनो भिदा ॥ इत्यादिबाधकं तु विप्णुत्वनिर्णयादौ निरस्तमित्यर्थः । तृतीयं निराचष्टे - यदि वा सर्वमिति । नित्यसुखादीति ॥ ‘यदि नाम न तस्य वशे। सकले, कथमेव तु नित्यसुखे न भवेत्।' युक्तेरिति भावः ॥ न चाचेतनस्य कथं नित्यसुखादिप्रसङ्ग इति वाच्यम् | 1. तत्वाभावरूपार्थसिद्धिर्न स्यादित्यर्थः ।