पृष्ठम्:तत्त्वसङ्ख्यानम्.pdf/32

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

s व्याख्याद्वयोपेता यद्यपि भावाभावितया वा चेतनाचेतनत्वेन वा नित्यानित्यतया वाऽस्य द्वैविध्यॆ शक्यते वतुम् । तथाप्यस्य वैयथ्र्यात् अयमेव विभागो न्यायः । परतन्त्रप्रमेय स्वतन्त्रप्रमेयायत्ततया विदित हि निःश्रयसाय भवंति । तथा च प्रकरणान्ते वक्ष्य'ति । 1. वक्ष्यति -- * बन्धी मोक्ष ' ........ इत्यन्तिमकारिकायामिति भावः । श्री विजयीन्द्रतोथ: । भावः । तुरीयं निरस्यति --- यदि वा परतन्त्रमेवेति । अनवस्थितेरिति । सर्वस्य पारतन्ध्ये 'परस्यापि परतन्त्रत्व, एवमन्यस्यापीत्यनवस्थितेरित्यर्थ: । असम्भवंचेति । कस्यापि पारतन्त्र्यं न स्यादित्यर्थः । पारतन्त्र्यं हि परप्रेर्यमाणत्वम्। परश्व व्यापारवान् परं प्रेरयेत् । तमपि कश्चिद्वयापारवान् अपर-इति मूलभूतव्यापारासिद्धौ सर्वव्यापारासम्भवेन तद्वटितपारतन्त्र्याऽस- । म्भवादिति | किमतो यद्येश्वमत आह-न कस्यापीनि । स्वातन्व्याभावे जगन्नोत्पद्येत, न प्रतीयेत, न प्रवर्तेतेत्यर्थः । अागमविरोधश्चेति । स्वतन्त्रेश्वरप्रतिपादकागमविरोध इत्यर्थ: ॥ ननु प्रकारान्तरेण द्वैविध्यसत्त्वात् म्वातन्त्र्यपारतन्त्र्याभ्यामेव द्वैविध्योपवर्णने किं विनिगमकमित्याशङ्कय स्वातन्त्र्यपारतन्व्याभ्यामेव तत्वज्ञानं 'निश्श्रेयससाधनमिति परिहारमाह--द्विविधं तत्वमित्यन्तेन | শ্রী वेङ्कटभट्टाः अचेतनस्य स्वातन्त्र्यायोगेन सर्वस्यापि स्वतन्त्रत्वेऽचेतने चेतनत्वस्यापाद्यमान त्वादेिति भावेन’आदिशब्दप्रयोगः । 'यदि सर्वं तत्वं परं - परतन्त्रमेव स्यात् तदा ‘ऽनवस्थितेरसंभवाच्चे' त्यन्तरा*धिकरणीयसूत्रखण्डोक्तन्यायेन परतन्त्रस् प्रवर्तकत्वे तस्यापि परतन्त्रान्तरप्रवर्तकमित्यनवस्थितेः, पूर्वपूर्वचेष्टासिद्धौ उत्तः रोत्तरचेष्टाऽसिद्धिरिति मूलक्षतेः । परतन्त्रस्य प्रवत्र्येन सह परतन्त्रत्वसाम्ये ` 1. परमात्मनोऽपि । 2. मोक्षाय । मूले-वैयर्थ्यात् = निष्प्रयोजनत्वात् । अय मेव = आचार्योक्त एव । १, सुखादीत्यादिपदप्रयोगः । 4. उत्तरवाक्यमवतार यति-यदीत्यादिना । 5. ब्रह्म-सू ( १-२-१७) ।