पृष्ठम्:तत्त्वसङ्ख्यानम्.pdf/33

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तत्त्वसङ्खयानटीका अन्यथा गङ्गावालुकापरिगणनवत् इदै तत्त्वसङ्खयानम'पार्थकै स्यात् । अतः स्वतन्त्रास्वतन्त्रभेदात् द्विविधं तत्त्वमिति स्वतन्त्रतत्वस्य प्राधान्यात तदेवादावुद्दिष्ट्रम्; उद्देशैनैव लक्षणं लब्धमिति ॥ 1. अपार्थकं = अपगतोऽविद्यमानोऽर्थः यस्य तत् = निष्प्रयोजनम् ॥ श्री विजयीन्द्रतीथः । । प्राधान्यादिति । निश्श्रेयसोपयोगिज्ञानविशेष्यत्वादित्यर्थः उद्देशस्य लक्षणाद्यर्थत्वातदनुतौ न्यूनते त्याशङ्याह-उद्देशेनैवेति ॥ इष्यत इत्यनेन सूचिता परीक्षा चशब्दार्थः । तत एवेति । प्राधान्यादे

  • श्री वेङ्कटभट्टाः ।

प्रवर्तनाऽसम्भवाच्च न कस्यापि प्रवृत्तिस्स्यादित्याह--यदि वा परतन्त्रमेवेति। अागमविरोधश्चति ।। ** अानीद'वातं स्वधया तदेकम्' **'नाहं कश्चिदुष्पाश्रित:' इत्यागमविरोधस्यादित्यर्थ: । चतुर्थ निराचटे - यद्यपीति ॥ वैयर्थ्यमेवोपपादयति -- परतन्त्रप्रमेयमिति । वक्ष्यतीति । यद्यप्येतत्प्रकरणान्ते सृष्टद्यादिविपये इदं परतन्त्र विष्णवायतमित्येवोच्यते', न तु तथा ज्ञातस्य निश्श्रेयसहेतुत्वम्, तथाप्येतत्प्रकरणेोक्तार्थे “साक्षित्वेन 'भगवत्मणीततत्त्वविवेकगतवाक्योदाहरणरूपतया 'तत्त्वविवेकस्य 'एतत्प्रकरणशेषत्वात् तदन्ते य एतत्परतन्ले तु सर्वमेव हरेस्सदा । वशमित्यव जानाति संसारान्मुच्यते हि सः । इत्युक्तत्वादियमुक्तिरिति बोध्यम् ॥ 'वैयर्थ्यादेव नामरूपकर्मभेदाद्विना त्रैविध्यादिसम्भवादिति चतुर्थोंऽपि निरस्त इति भावेनोपसंहरति - अत इति । 1. ऋक्सांहता (म. १० - सू. १२९ - मन्त्र) 2. रुद्रं समाश्रिता देवाः रुद्रो ब्रह्माणमभित: । ब्रह्मा मामाश्रितो नित्यं नाह कञ्चिदुपाश्रितः । (भारते आश्व. ११४. ३४) '. सष्टिस्स्थितिश्चेत्यादिना ।। 4. प्रमाणत्वेन ।। 5. व्यासकृतेत्यर्थः । 6. आचार्यकृतस्य । 7. तत्वसंख्यानेत्यर्थ: । 8. प्रकारान्तरेण विभागस्य वैयथ्र्यादेवेत्यर्थ: ।