पृष्ठम्:तत्त्वसङ्ख्यानम्.pdf/34

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

re व्याख्याद्वयोपेता अन (नत) एवादौ तन्निर्दिशति-खतन्त्र इति । ' स्वतन्त्रो भगवान् विष्णुः' अत्र भगवानिति विष्णोः स्वातन्त्र्योपपादकम् । अन्यदस्वतन्त्रमिति शेषः । अथवा द्वे तत्वे इन्युक्त स्वतन्त्रमिव परतन्त्रमेका व्यक्तिरेव प्रसज्येत । तथाच प्रमाणविरोधो घक्ष्यमाण श्री विजयीन्द्रतीथः । वेत्यर्थः । ननु किं स्वतन्त्रमिति धर्मिजिज्ञासायां विष्णुरिति वक्तव्ये 'भगवत्तया तन्नेिर्देशानर्थक्यमिल्यन आह - अत्र भगवानितीति । अत्रान्यदस्वतन्त्रमिति शेषस्यामितत्वात् क्ष्मिस्वतन्त्रमिति जिज्ञासाऽशान्तिरित्याह -- अन्यदस्वतन्त्रामति शेप इति । न चेनरदित्यनेनास्वतन्त्रनिर्देशात्तत एव जिज्ञासाशान्तिरिति वाच्यम्, तस्य विभागपरत्वेनान्याविरुद्धतया एतादृशाकाङ्क्षाऽनिवर्तकत्वादिति भावः । ननु प्रथमं इतिशब्दाध्याहारं विनैव तत्त्वं स्वतन्त्रमस्वतन्त्रमिति अक्लिष्टान्वर्गेनैव द्वैविध्यलाभे द्विविधमत्यनर्थकम् । अन्यदस्वतन्त्रमिति शेषदान चाधिकमित्यम्वरमात् कल्पान्तरमाह -- अथवेति । प्रसज्येतेति । तत्त्वं स्वतन्त्रमस्वतन्त्रै चेति 'नान्टलम्यान स्वनन्त्रास्वतन्त्ररूपे द्व तत्वे इति श्रां वेङ्कटभट्टाः । ननु - उत्तरकारिकायां स्वतन्त्रतत्वयवादी श्रृंक्रग्राहिकया निर्देश: कुतः । न च लक्षितावादादौ र्निर्देश इति युक्तम्, लक्षणोतेरेवानुपलब्धे; | आर्दी तत्वलक्षणोत्तौ वीजाभावाच्चत्यत आह -- स्वतन्त्रतत्त्वस्यैवेति । उद्देशेनैवेति । अदाविति शेषः । यथा संज्ञानिरुक्त्यव लक्षणलाभः, तथा उक्तमिति भावः | तत एवेति । प्राधान्यादुद्दिष्टस्यादौ लक्षितत्वात्, तदेवादौ निर्दिशति, अप्राधान्यादुद्दिष्टमनन्तरं लक्षितमस्वतन्त्रमर्थान्निर्दिशतीत्यर्थः । अत एव *वक्ष्यति - अन्यदस्वतन्त्रमिति शेष इति । अन्यद्विष्णोः । अत्रेति । तत्वविवेक निर्दोषाखिलसद्गणत्वस्य स्वातन्त्र्योपपादकस्य 'सत्त्वात् 'भगवान् 1. तत्पदप्रतिपाद्यगुणविशिष्टतयेत्यर्थः । 2. समुच्चयार्थकचशब्दसामथ्र्यात्। स च स्वसमभिव्याहूतपदार्थस्य स्वघटितवाक्यघटकपदान्तरार्थसाहित्यं बोधयन् वाक्यबोधितपदार्येषु द्वित्वादिकं बोधयति । तस्य च विशंषकारणाभावे व्यक्तावे वान्वय इति तात्पर्यम् ! 3. टीकाकृदत्र कर्ता । 1. निदषाशषेत्यादिविशेषणसत्वादित्यर्थ: ॥