पृष्ठम्:तत्त्वसङ्ख्यानम्.pdf/38

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२ व्याख्याद्वयोपेता भावाऽभावौ विधिनिषेधात्मानौ, रूपान्तरेणतु निषेधविधिरूपौ । तत्र आपातजायां संविदि स्वरूपमेव भासते। द्वितीयादिप्रतीती Xa श्री विशयीन्द्रतीथ: । र्विभाजको पाधिमाह- प्रथमेल्यादि । सतावद्विशेष्यकप्राथमिकप्रतीतिविषयत्वं भावत्वम् । सत्ताभाववद्विशेप्यकप्राथमिकप्रतीतिविषयत्वं अभावत्वमित्यर्थः । न च सत्तार्दी सत्ताया अभावेन भावाभावविभाजोपाध्योरव्यासिरिति वाच्यम् | सत्तादाक्प्येकार्थ 'सामानाधिकरण्येन सत्ताया विद्यमानत्वात, अभावे तु सत्ताभावेऽपि अभेदेन सम्बन्धेन सत्ताभावसत्त्वतू । उभयत्र च

  • श्री वेङ्कटभट्टाः । ۔۔۔۔۔۔۔۔۔۔ ۔۔۔۔۔۔۔۔۔۔۔۔۔۔۔ بر भावात् । द्वितीयेऽपि -- किमिह जन्मनि स्वविषयिका या प्रथमप्रतीतिः सा विवक्षिना ४ र्कि वा एकसामग्रीजन्यासु स्वविषयिकासु या स्वविषयिका या प्रथमप्रतीतिः वा ? अथवा --- यदा यदा स्वयं जायते तदा तदा स्वविषयकं ज्ञानद्वयमस्ति, आपातजेविमर्शजे च। तत्रापातजा या संवित् सा?। नाद्यः - गिरिदरीविवेकिवर्तिनो गजाभावस्य अभावत्वज्ञानात्पूर्वमेव जातायां यत्प्रमेयं तदस्तीत्यतस्यां सामान्याकारेण प्रमेयमात्रविषयिकायां वन्यग्जाभावस्य प्रथममस्तित्वेन प्रतीतेः भावाभावलक्षणयोरतिव्याप्त्यव्याप्तिप्रसङ्गात। न द्वितीयः --- एकसामग्रया अनेकज्ञानजनकत्वायोगात्। सामग्रीभेदाभावे कार्यभेदस्याकस्मिकत्वप्रसङ्गात्। तृतीयेऽपि के इमे --- अस्तिनास्तिप्रतीती? किमस्तिनास्तीति व्यवहारीत्पादिके? किं वाऽस्तिनास्ति-दार्थविषयिकं ? यद्वा अस्तित्वनास्तित्वप्रकारेिके । नाद्यःअव्याप्तः । ज्ञानस्य व्यवहारजनकत्वनियमाभावेन विवक्षितस्य अस्तीत्यादिप्रतीतिविषयत्वस्याभावात् । उत्पन्नल्यापि ज्ञानस्य व्यवजिहीर्षाभावेन व्यवहाराजनकंवातू । न द्वितीय:- भावाभाविलक्षणयोरतिव्याप्यसंभवापातात् । अभावस्यातित्वपदार्थत्वात् । अन्यथा कथं पश्चादपि घटाभावोऽस्तीति प्रतीतिः । तृतीयेऽपि-के इमे अस्तित्वनास्तित्वे ? किं भावत्वाभावित्वे? सत्वनिषेधत्वे वा ? अद्ये - अन्योऽन्याश्रयः, द्वितीयेऽनुगतसत्तानङ्गीकारेण स्वरूपसत्त्व

1. एकस्मिन्नाथें = द्रव्यादी, सामानाधिकरण्येन गुणादिसामानाधिकरण्येन विद्यमानत्वादित्यर्थ: । एवं च सक्तायाम । सत्ताऽस्त्थे वेति शयभिति भाव: ।