पृष्ठम्:तत्त्वसङ्ख्यानम्.pdf/39

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तत्त्वसङ्खयानटीका २३ रूषान्तरम् । कार्यगम्यत्वात् सामग्रीभेदस्य। तथाच प्रतीतिः-अस्त्यत्र घटः, स न शुल् इति । एवं नास्त्यत्र घटः, अस्ति घटाभाव इति । श्री विजयीन्द्रतीथः ॥ प्रतीर्तौ प्राथम्यविशेषणात् न द्वितीयादिप्रतीतिमादाय परस्परातिव्यातिरित द्रष्टव्यम् । प्रथमेति विशेषणात्, अतिव्याप्तिनिरासं प्रश्नपूर्वकमुपपादयितुमाह— कुत एतदित्यादि । नन्वेवं सामग्रीवैचित्र्यकल्पने किं मानमत आहकार्येति । कार्यवैचित्र्यानुपपतेरेव सामग्रीवैचित्र्ये मानत्वमित्यर्थ: । कार्यवैचित्र्यमेवांह- तथाचेति । न शुल्छ इनीति । शुक्लभेदस्य घटरूपत्वेऽपि शुकृभिन्नतया ज्ञान प्रतियोश्यादिज्ञानाभावा(दा)दी न सम्भवतीति भावः। श्री वेङ्कटभट्टाः निषेधत्वरूपे उभे अपि प्रत्येकं भावेऽभावे च विद्येते इति सिद्धान्तः । एवञ्च स्वरूपप्रतींतावेव प्रतीयते? उत न? आद्ये-स्वरूपसत्वस्य भाव इव अभावेऽपि प्रत्येतव्यत्वात् । निषेधत्वस्य चाभाव इव भावे प्रत्येतव्यत्वादतिव्यातिः । द्वितीये त्वव्याति:, न हि भावे एव स्वरूपसत्वमेव प्रथम प्रतीयते। अभाव एव निषेधत्वमेव प्रथमं प्रतीयत इत्यत्र नियामकमस्तीति भावेन शङ्कते - कुत एतदिति । परिहरति - स्वरूपेणेति । धर्मितयेत्यर्थः । रूपान्तरेणेति । अभावाभावरूपधर्मवत्तयेत्यर्थः । निपेधविधिरूषाधिति । धर्मिधर्मैक्यवत इति भावः । खरूपमेवेति । तदा रूपान्तरप्रतीतिसामग्रीविरहादिति भावः ॥ द्वितीयादिप्रतीतविति ॥ तदा रूपान्तरप्रतीतिसामग्रीसमावेशादिति भावः ; ननु - आपातजायां संविदि रूपान्तरप्रतीते: सामग्रीविरह, द्वितीयादिमतीतौ तत्समावेशश्च कुत इत्यत आह--कार्येति ॥ कार्यमेव दर्शयतितथाचेति ॥ भावविषयं प्रतीतिद्वयं क्रमेणोदाहरति । अस्त्यत्र चेति । अभावविषय प्रतीतिद्वयं क्रमेणोदाहरति एवमिति ॥ कार्वमेव क्रमेणोदाहरति-एवमिति॥ ननु--'भावलक्षणे घटाभावोऽस्तीति वाक्यात् ।। 1. प्रथमप्रतीतावस्तीति प्रतीयमानत्वं भावत्वमिति भावलक्षणेऽङ्गीक्रियमाणे।