पृष्ठम्:तत्त्वसङ्ख्यानम्.pdf/42

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्याख्याद्वयोपेता यथा भावेषु स्वतन्त्रतत्त्वै प्रविशति, तथा विभागः क्रियतामिति चेन् ---नैवं शङ्कयम्, तद्धि प्रधानतया सर्वविवित्तमेव वेदितव्यम् । अन्यथा-द्विविधं तत्वं, भावोऽभावश्च । भावोऽपि द्विविधः नित्योऽनित्यश्च । नित्योऽपि द्विविधः, चेतनोऽचेतनश्च । चेतनोऽपि द्विविधः, स्वतन्त्रोऽस्वतन्त्रश्च इति कर्तव्यम् । एवं सति न प्राधान्येन प्रतिपत्तिस्स्यान् । भगवद्यतिरिक्तस्य सर्वस्यापि अस्वातन्त्र्यप्रतीनिने स्यान् । अस्मिन् पक्षे स्वतन्त्रस्य भावत्वं न विदितं स्यादिति मममेवेति चेन्-न; पुरुषार्थोपयोगानुपयोगाभ्यां विशेषात। अभावादीनां

&

& श्री विजयीन्द्रतीर्था: । ननु तत्वस्य भावाऽभावतया वाऽऽद्य! विभाग: कुतो न कृत इत्याह - यथा भावेष्विति । एवै सतीति । भावस्वाभावस्वाभ्यां तन्वविभागकरण दृश्यर्थ:। स्वातन्त्र्याम्वातन्त्र्याभ्यामेव विभागकरण पूर्वोक्तयुक्तिमपि गारयाि - भगवद्वद्यतिरिक्तस्येति । यद्यपि ' यद्यपी 'त्यादिना भावत्वाभाववाभ्यां विभागकरर्ण पूर्वमाशङ्कितम् । तथापि म्वतन्त्रायत्तनया पर तन्त्रम्य ज्ञाने नि:श्रे यसोपयोगीति वर्नु पूर्वमाशङ्कितम्।। इदानी तु स्वतन्त्रम्य प्राथान्चेन सकलविविक्तनया ज्ञानं निश्श्रयसोपयोगीति निवेदयिनुमिति भेद इति द्रष्टव्यम् । श्री वेङ्कटभट्टाः । तथापि प्रथम बुद्धयाँ निषेधन्य गोचर: । सोऽभावो विधिबुद्धंम्तु गोचर: प्रथमः परः ! इति । परतन्त्रति । स्वतन्त्रतत्वम्याऽम्वतन्त्रतत्वावान्तरभेदत्वापत:, अन्यथाऽनुपपत्तश्च । तथा चान्यथाविवक्षितसंख्याया ' विभज्यमानाऽन्थयोगवच्छेदार्थकविभागविरोधादिति भावः । व्याघातादिनि । न हि विधिनिषेधाववधूय प्रतीतिर्नामाऽस्तीति भावः । विभागस्य विभज्यमाने विवक्षितन्यूनाधिकंसंख्याव्यवच्छेदार्थत्वमि 'त्यनो विभागविरोध इत्याह — परतन्त्रमिति । कुतो न शङ्कयमित्यत आह - तद्धीति । हिशब्दो हेतै । प्रधानतयेति । 1. विभज्यमानं अस्वतन्त्रतत्व तदन्यवृत्तित्वव्यावृत्त्यर्थकं त्यथंः ।