पृष्ठम्:तत्त्वसङ्ख्यानम्.pdf/43

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तत्त्वसङ्खयानटीका २७ नित्यत्वाद्यनुक्तिश्च समैश्च । तस्मात् यथान्यासमेवास्तु । अथ-अस्वतन्त्र चेतनत्वादिनैव विभज्यताम्, कि चेतनत्वादिना विभज्य, भावाऽभावतया विभागः कर्तव्यः, उतायं न कर्तव्य एव । नाद्यः- (अविशेषातू) विशेषाभावान् । अभापस्याचेतनत्र्य श्री विजयीन्द्रतीर्थाः । ननु प्राधान्येन इतरसर्वविविक्ततया च स्वतन्त्रज्ञानार्थतया विभागाकश्यकत्वे भावतया न तज्ज्ञानं सिद्धयेदिति ** एकं सन्धित्सतोऽपरं प्रच्यवते ?' इत्याह-- अस्मिन् पक्ष इनि । तेन रूपेण तज्ज्ञानस्य पुरुषार्थानुपयोगित्वान्न तुल्यतेत्याह् - - नेति । नित्याऽनित्यतया च तत्त्वविवेकस्य पुरुषार्थोपयोगित्वेऽपि तेन रूपेणाविवेकस्त्वत्पक्षेऽपि सम इत्याह--अभावादीनामिति। विभज्यमानां नित्यानमित्यर्थः । उपसंहरति--तस्मादिति । ਅੰ ਕੇਤੂ: साक्षात्तत्त्वविभाजन्मेपाभ्यवच्छिन्नत्वेनेल्यर्थ:। हेतुरेव विविच्यते-अन्यथेति । विनिगमनाविरहेण नित्यादितत्त्वेऽपि स्वतन्त्रतत्त्वस्य प्रवेशनीयत्वादिति भावः । इति कर्तव्यमिति । भावो द्विविधः -- स्वतन्त्रोऽस्वतन्त्रश्च, अस्वतन्त्रोऽपि द्विविधः -- चेतनोऽचेतनश्चति ; नित्योऽनित्यश्चति वेत्येवं कृते, भावत्वे विदितेऽपि स्वतन्त्रतत्वस्य भावत्वे नित्यत्वे च विदितेऽपि, चेतनेषु नित्यानित्यप्रभेदाभावेन स्वतन्त्रास्वतन्त्रयोर्नित्यप्रभेदत्वानुपपत्या स्वतन्त्रतत्त्वस्य चेतनत्वे नित्यत्वै चाविदितं स्यात् । भावो द्विविध: - चेतनोऽचेतनश्चत्येवं कृते, स्वतन्त्रतत्त्वस्य भावत्वे नित्यत्वे च विदितेऽपि, चेतनेषु नित्यानित्यप्रभेदाभावेन स्वतन्त्रास्वतन्त्रयो: नित्यप्रभेदत्वानुपपत्त्या स्वतन्त्रतत्वस्य नित्यत्वमविदितं स्यात् | भावोऽपि द्विविधी नित्योऽनित्यश्धत्येवं कृते, नित्येषु चेतनाचेतनत्वमभेदसद्धावेन स्वतन्त्रास्वतन्त्रयो: चेतन प्रभेदत्वेोपपत्त्या चेतनत्वज्ञानसम्भवात् स्वतन्त्रतत्त्वस्य भावत्व-नित्यत्व-चेतनत्व-ज्ञापनार्थमेव विभाग: कर्तव्य इति भावः। पुरुषाथपयोगेति । भगवद्ध्यतिरिक्तस्य सर्वस्य स्वतन्त्रप्रमेयाऽऽयत्ततया ज्ञानं यथा निश्श्रेयसहेतुत्वेनोपयोगि, न तथा स्वतन्त्रतत्वस्य भावत्वादिज्ञानमित्यर्थः ।