पृष्ठम्:तत्त्वसङ्ख्यानम्.pdf/44

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

*く व्याख्याद्वयेोपेता एवं सति नोक्तं स्यादिति चेत् – तथा सति चेतनस्य भावत्वमपि नोक्तं स्यादिति समम् । तर्हि केन विशेपेणास्य प्राधान्यमिति चेत्वादिविप्रतिपतिभावाभावाभ्यां विशेषात् : अत एव न द्वितीयोऽपीति। अभाव एव नास्तीति केचित् । तदसत् । नास्तीति प्रतीतेर्दुरपह्नवत्वात्। घटो नास्तीति प्रतीतिभूतलमात्रविषयेति चेन्- मालेति कि भूतलमेवोच्यते ? उतातिरिक्तं किञ्चित् ? अद्ये घटवत्यपि प्रसङ्गः । अतिरिक्तोऽपि घटश्चेदुक्तो दोषः । भावान्तरं चेत्- रूपवति घटे गन्धो नास्तीति प्रतीतिप्रसङ्गः । श्री विजयीन्द्वतीर्थाः । ननु भगवत्पादकृतविभागे विनिगमकं किमल्यभिप्रेत्य पृच्छति - अथेति । कि चेतनत्वादिनेति । 'अस्वतन्त्र चेतनमचेतनं चे ति अादौ विभज्य, तदनन्तरं अचेतनं द्विविधं -- भावोऽभावश्चेत्येवं विभज्यतामित्यर्थः । उतायमिति । अचेतनं द्विविधं - भावोऽभावश्चत्येवं रूपश्चरम इत्यर्थ:। तदुत-विभाग इति। किं विनिगमकमित्यभिप्रत्य सिद्धान्तयतिअविशेषादिति । विशेर्ष शङ्गते - अभावस्येति । तथामतीति । विदुतौर्वांपर्येण विभागे सतीत्यर्थ: । अभिप्रायमुद्धाष्ट्यति- घादीति ॥ भगवत्पादकृतपैवपर्यविभागे वादिविप्रतिपक्तिसद्धाव एव विशेष इत्यर्थ: । अत एवेति । वादिविप्रतिपतिसद्धावादेवेल्यर्थः । तामेव विप्रतिपतिमाहअभाव एव नास्तीति केचिदिति ॥ अभावत्वेन व्यवद्दिष्यमाणे भावभिन्नत्वं नास्तीत्यर्थः । यथाश्रुते सिद्धयसिद्धिभ्यां व्याघातादिति । दुरपह्नवत्वादिति । तथाचेयमेव प्रतीतिरतिरिक्ता भावविषयकत्वं विना अनुपपद्यमाना श्री वेङ्कटभट्टाः ॥ समेवेति । अस्मत्पक्षेऽभावस्यानित्यत्वेऽचेतनत्वाद्यनुत्तिः, स्वतन्त्रतत्त्वस्य नित्यत्वचेतनत्वाद्यनुक्ति चेतनस्य नित्यत्वाद्यनुक्तिर्यथा प्राप्यते, तथा त्वत्पक्षे अमावस्य नित्यत्वाद्यनुत्तिः, नित्यस्य चेतनत्वाद्यनुत्तिः प्राप्यत इत्यर्थः । भावाभावतयोक्त परतन्त्रविभागमाक्षिपति - अथेति । अस्वतन्त्रमिल्यनन्तरं एवशब्दो योज्यः ॥ यद्वा प्रथममिति शेषः । तेन विकल्पाऽन्नव *शः