पृष्ठम्:तत्त्वसङ्ख्यानम्.pdf/47

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तत्त्वसङ्खयानटीका ३१ प्राक्प्रध्वंससदात्वेन विविधोऽभाव इष्यते । चेतनाचेतनत्वेन भावोऽपि द्विविधो मतः ॥ २ ॥ प्राक्त्वेन प्रध्वंमत्वेन सदात्वेनोपलक्षितः अभावस्त्रिविध इष्यते। प्राम्ाणिकैरिति शेषः । उत्तरैकावधिरभावः प्रागभावः । " " " श्री विजयीन्द्रतीथः । अभावाऽसंम् न्धस्य भावाभावस्वरूपश्वमभिप्रत्याष्ट्र - अवान्तरभेद इति । अन्यथा धर्मिण्येव द्वित्वमुपन्यम्येत दृति भाव: । उद्देशक्रमोल्लङ्घने बीजमाह - तन्त्रति । भावाभावयेोर्मध्ये । त्रैविध्योपपादनाय उत्त• पदार्थस्य समस्यमानप्राक्पदार्थेऽन्वयमाह-- प्राक्वेनेत्यादिन!!! मॅनु प्राक्तुं)ादेः कालवृत्तिधर्मवेन अभाववृतित्वाभावात् कथे तेन रूपेण अभावविभाग इत्यतः आह - उपलक्षित इति । तथा च प्रागभावत्वं, जन्याभावव. सदातनाभावत्वं च त्रयं विभज्यतावच्छेदकभिति नोतदोष इति भावः । सर्वैरं स्वीकारात् कथं स्वीक् तंव्यं स्यादित्यतः शेषेण वाक्यं पूरयति-प्रामाणिकरित। तथा च अप्रामाणिकानङ्गीकरेऽपि न वस्तुहानिरिति भावः । उत्तरैकाविधिरिति । विनाश्यभाव इत्यर्थः । Y · · `श्री वेङ्कटभट्टाः ।। " प्राक्त्वेनेत्यादि। द्वन्द्वान्ते श्रूयमाणः त्वप्रत्ययः प्रत्येकमभिसम्बध्यते, तृतीया च इत्था भूतलक्षण इत्यर्थ: | उत्तेरैकावधिरिनि। अत्र प्रध्वेस-सदाभावयोरतिव्यासवर्णायेदं विशेषणम् । भावरुपाऽनाद्यविद्यादावतिव्यातिवार णायाभावपदम् । ननु- उत्तरावधिमत्त्वेनैव प्रध्वंससदाभावयोरतिव्याप्तिवारणात् एकपर्द व्यर्थम्। अर्थ घटादिरूपे प्रागभावप्रध्वैसे अतिव्याप्तिवारणाय एकपदम्। नचैर्व घटादिरूपे प्रध्वंसप्रागभावेऽतिव्यातिरेति वाच्यम् । प्रमेयान्तरस्यैव प्रागभावस्य लक्ष्यत्वेन घटादिरूपस्य तस्यालक्ष्यत्वादिति चेन्न । प्रध्वंसप्रागभावरूपाsविद्यादावतिव्याते: अभावपदेन तन्निरासाय,अभावपदस्य प्रमेयान्तरभूताऽभावपर