पृष्ठम्:तत्त्वसङ्ख्यानम्.pdf/48

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२ व्याख्याद्वयोपेता प्रतियोग्युत्पत्तः प्रागेवाऽभावोऽस्ति, उत्पन्न तु तस्मिन्नास्तीति कृत्वा । पूर्वैकावधिरभावः प्रध्वंसाभावः । प्रतियोगिप्रध्वँसाऽनन्तरमेवाभावो न तु प्रागस्तीति । न चैवं प्रागभावंप्रध्वंसः प्रध्वंसप्रागभावः इति प्रवाहौ प्रसज्ज्येते । प्रतियोगिन एव प्रागभावप्रध्वंसत्वेन प्रध्वंसप्रागभावत्वेन चाङ्गीकृतत्वान् । तर्ह घटप्रध्वंसी नाम श्री विजयीन्द्रतीर्थाः । । पूर्वैकाविधिरिति । प्रागभावप्रतियोग्यभाव इत्यर्थः । एतदेवोपपादयति-प्रतियोगीति । प्रागभावप्रतियोगिकध्वंस-प्रध्वंसप्रतियोगिकप्रागमावै प्रतियोग्यतिरिक्तौ मत्वा शङ्कते- न चैवमिति । प्रवाहाविति । प्रागभावप्रध्वंसस्यापि प्रागभावः, तस्यापि विनाश्यभावत्वेन अपरः प्रध्वंसः, तस्य च प्रागभावप्रतियोग्यभावत्वेन अपरः प्रागभावः इत्येकः | प्रध्वंसस्यापि प्रागभावप्रतियोग्यभावत्वेन तत्प्रागभावः, तस्यापि ध्वंसप्रतियोगित्वेन अपरो ध्वंसः, तस्य च प्रागभावप्रतियोगित्वेन अपरः प्रागभाव इत्यपरः प्रवाह इत्यर्थः । अन्वयव्यतिरेकाभ्यां प्रतियोगिंनैव प्रागभावप्रध्वंस- प्रध्वंसप्रागभावप्रतीत्याद्युपपत्तौ न प्रतियोग्यतिरिक्तावित्यभिप्रेत्य समाधत्त -- प्रतियोगिन ऐवेति । घटप्रागभावेत्यर्थः । न चेष्टापत्तिः, उत्पन्नस्य घटस्य यथापूर्वं सामग्रीसत्त्वेन पुनरुत्पाद・ ー ・ श्री वेङ्कटभट्टाः ।॥ त्वस्य आवश्यकत्वे घटादिरुपे प्रागभावप्रध्वंसेऽतिव्याप्तिशङ्काविरहादिति। मैवम्-- उत्तरपदस्य केवलार्थकैकपदसमभिव्याहृतस्य पूर्वावधिनिषेधमात्रपरत्वेन उत्तरेंकावधिपदम्य पूर्वावधिरहितत्वे सति अवधिमत्त्वार्थकत्वात् । एवञ्च पूर्वावधिरहितत्वेन प्रध्वंसाभावेऽवधिमत्वेन सदाभावेऽभावपदेनाविद्यादी चातिव्यातिनिरासात्, नकस्यापि वैयर्थ्यमिति न कश्चित्क्षुद्रोपद्रवः ॥ लक्षणानुक्या न्यूनतां परिहर्नु लक्षणमपि उद्देशेनैव प्रतियोगिप्रध्वेसान न्तरभावे सूचितमिल्याह-प्रतियोग्युत्पत्तरिति । तत्वविवेकटीकोक्तरीत्या इदमपि लक्षणम् । तत्र ' सदाभावस्वरूपे घटान्योन्याभावे प्रतियोग्युत्पत्तेः प्रागपि विद्यमानेऽतिव्यासि वारणार्येव' इत्युतम् । काललक्षणे कालावयवविशेषे