पृष्ठम्:तत्त्वसङ्ख्यानम्.pdf/57

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तत्त्वसङ्खयानटीका 9. अत एव तद्विभागमाह-स्पृष्ट्रेति ॥ स्पृष्टदु:खा विमुताश्व दु:खसंस्था इति द्विधा। दु:खसंस्था मुतियोग्या अयोग्या इति च द्विधा ॥ ४ ॥ विमुक्ताः, दुःखात्। दुःखसंस्थाः= वर्तमानदुःखाः । चशब्दो दुःखसंस्था इत्यतः परं योज्यः । अत्र प्राधान्यक्रमेणोद्देशः । दु:खसंस्थानां प्रभेदमाह - दुःखसंस्था इति। अयोग्याः, मुक्तेः । अयोग्या इत्यतः परं चशब्दो ज्ञातव्यः । अत्रापि तदेवोद्देशक्रमे निमित्तम् । ननु च प्राधान्याद्विमुक्तभेदः प्रथमं वक्तव्यः । सत्यम् । श्री विजयीन्द्रतीर्थाः ॥ देवेल्यर्थः । अत एव तदिति । दु:खस्पृष्टे मेदसद्धवादेवेत्यर्थः । दु:ख- स्पृष्टदु:खानां दु:खाधेयत्वं स्वरूपं दु:खसंस्थत्वं बाधितमत आह-वर्तमानेति ॥ न च सुषुप्त्यवस्थायामव्याप्तिः, वर्तमानदुःखत्वेन दुःखप्रागभाववत्वस्य विवक्षितत्वात ॥ स्पृष्टदुःखानां साधारणतया समुचेष्यत्वाभावादाहच शब्द इति ॥ अत्रेति ॥ अविद्यानवच्छिन्नचेतनत्वेन विमुक्तानां प्राधान्यं द्रष्टव्यम् ॥ श्री वेङ्कटभट्टाः ॥ इति भावः । अत एवेति । गरुडादीना दुःखास्पृष्टत्वे हि दुःखास्पृष्टप्वपि भेदस्यात् - न चैवम् । तस्य ' समस्तश? इत्यनेन निरस्तत्वादित्यर्थः | 'एधाच् प्रत्यय इति ॥ एधाञ्चो धार्थे सत्त्वादित्यर्थः । यथाच प्रकारद्वैविष्योतिः सत्यपवादे अवान्तरभेदेनाप्युपपन्ना नापवादविषयेऽवान्तरभेदं सूचयति, तथोपपादितमधस्तात्' ॥ 1. एधाच् प्रत्यय इति पाठं मत्वेदम् । 2. * स्वतन्त्रमस्वतन्त्र " मिति मूलव्याख्यानटीकाविवरणावसरे । 6