पृष्ठम्:तत्त्वसङ्ख्यानम्.pdf/60

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्याख्याद्वयोपेता विरोधात् । सृतिसंस्थिताः = नित्यसंसारिणः । अयोग्यतातिशयानुसा रेणोद्देशः। तमोयोग्यानां प्रभेदमाह - दैलेयति । इति द्विधा मुक्तययोग्याः दैत्यरक्षःपिशाचकाः । मल्यधमाश्चतुधैव तमोयोग्याः प्रकीर्तिताः ॥ ६ ॥ मत्यधमा इत्यतः परं इतिशब्दोऽध्याहार्यः । अप्रसिद्धत्वादस्य मेदस्याश्रद्धेयत्वं निवारयितुं एवशब्दः । प्रकीर्तिता इति - अत्रागमसम्मतिमाचटे । स 'चान्यत्रोदाहतो द्रष्टव्यः । t. अन्यत्र = शास्त्रेषु श्री विजयीन्द्वतीय: । दैत्यादिषु प्रत्येकं चातुर्विध्यान्वयभ्रमं वारयितुमाह - इतिशब्दोऽध्याहार्ये इति। उक्तप्रभेदस्याश्रुतचरत्वात् अप्रामाणिकत्वशङ्कां वारयितुमेवकार इत्याह— अप्रसिद्धति। नन्वेतावतापि अप्रामाणिकत्वशङ्का वारिता कथमिल्यत अाह- प्रकीर्तिता इत्यत्रेति । श्री वेङ्कटभट्टाः । प्रभृतीनामपि मुक्तप्रभेदत्वेन

    • क्षितिपा मनुप्यगन्धर्वा देवाश्च पितरश्चिराः ।

अजानजाः कर्मजाश्च देवा इन्द्रः पुरन्दरः ॥ इत्यादावुक्तत्वात् कथं पञ्चधेत्युक्तमित्यत आह – गन्धर्वादीनामिति। अत्र देवपदेन तात्विकानामिव कर्मजाऽऽजनजानामपि देवानां ग्रहणमू, 'तुम्बुरुप्रमुखा ये च तथोर्वश्यादिका अपि । आजान्देवास्ते प्रोक्ता' इत्युक्तः तुम्बुरुममुखशतगन्धर्वाण, उर्वश्यद्यप्सरसां चाजानदेवेप्वन्तर्भावात्। तुम्बुरुपमुखेभ्यः उत्तमगन्धर्वाणां चाटानां, 'कर्मदेवगण। अष्टगन्धर्वास्तत्परे शतम् । आजानदेव ' इत्युक्या मुक्तकर्मदेवेप्वन्तर्भावात् । तदन्येषां देवगन्धर्वादीनां तारतम्योतिपरेऽस्मिन् विभागवाक्ये विवक्षाविरहात् न 'क्षितिपा' इत्यादिग्रन्थान्तरविरोध इत्यर्थः । न हि विभागवाक्यान्तरस्येव अस्य वाक्यस्य न्यूनाधिकसंख्याऽवान्तरव्यवच्छेदे तात्पर्यम् , किन्तु मुक्ता देवप्र्यादिमेदेन तारतम्योपेता एवेत्यत्रैव । न चात्र ग्रन्थान्तरविरोधोऽस्तीति भावः । अत एव तत्त्वविवेके ह्यत्र ** ब्रह्मान्ता