पृष्ठम्:तत्त्वसङ्ख्यानम्.pdf/61

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तत्त्वसङ्खयानटीका 8ሂላ चतुर्विधा अप्येते प्रत्यक द्विधा इत्याह - ते चेति । ते च प्राप्तान्धतमसः सृतिसंस्था इति द्विधा । नित्यानित्यविभागेन त्रिधेवाचेतनं मतम् ॥७॥ ते च = चतुर्विधा श्रुपि । सृतिसंस्थाः = सुंसारे,वुर्तमानाः ॥ नाधुनाऽपि तमःप्राप्ताः । योग्यतायाश्चैतन्यस्वभावत्वेन तमोयोग्यानामयै विभागी नानुपपन्नः । एवं चेतनविभाग विस्तरेणाभिधाय अवसरप्राप्तमचेतनविभाग माह – निलेयति । अत्राप्यचेतनमेव एवं विभागवदित्यर्थानभ्युपगश्री विजयीन्द्रतीर्थाः । ननु तमोयोग्यतायाः सृतिसंस्थामात्रवृत्तित्वात् कथमन्धन्तमः प्राप्तोऽपि तमोयोग्यमध्ये विभज्यत इत्यत आह- योग्यताया इति। चैतन्यविशेषे अन्धन्तमः प्राप्तिकालेऽपि सत्वात् नोक्तविभागानुपपत्तिरित्यर्थः । नन्वेवम् – एवकारस्योद्देश्यान्वितत्वे उद्देश्यतानवच्छेदकानाक्रान्तविधेयव्यवच्छेदो लक्ष्यते, न चैतद्युक्तम्-चेतनस्यापि नित्यत्वादित्यत आह - श्री वेङ्कटभट्टाः । उत्तरोत्तरमुक्ताः शतगुणाः प्रोक्ताः इति तारतम्यमेवोक्तम् । इदमपि वाक्यं तेनेल्यादिना मोक्षे तारतम्याभावमतनिराकरणपरत्वेन व्याख्यातमिति बोध्यम् । मुक्तमभेदकथनेन व्यवहित दुःखसंस्थप्रभेदं स्मारयति - दुःखसंस्था इति । तमोगाः = तमोयोग्या इति । अत एव ' चतुधैव तमोयोग्याः प्रकीर्तिता ? इति वक्ष्यतीति भावः । वक्ष्यमाणेति । ते च प्राप्तान्धतमसः सृतिसंस्था इति द्विधेति वक्ष्यमाणविभागविरोधादित्यर्थः । प्राप्ततमसां सृतिसंस्थत्वाभावादिति भावः । अयोग्यतेति । विभज्यमानमुक्तद्ययोग्यनिष्ठमिथ्याज्ञानलक्षणमुक्तययोग्यताऽतिशयानुसारेणेत्यर्थः । मत्त्र्याधमानां चातुर्विध्यान्वयभ्रान्ति वारयितुमाह - म्क्त्र्याधमा इत्यत इति ! अप्रसिद्धत्वादिति । अतिप्रसिद्धस्वाभावादित्यर्थ: । अत एवोक्तार्थ प्रकीर्तिता इत्यनेनागमप्रसिद्धिरुक्तैयाहप्रकीर्तित। इति ।