पृष्ठम्:तत्त्वसङ्ख्यानम्.pdf/62

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

9& व्याख्याद्वयोपेता मात् पूर्वोक्ततत्वानामपि प्रमाणान्तरेण नित्यत्वादिग्रहणे न विरुद्धम् । नित्यानित्यविभागेनेत्यस्य नित्यानित्यत्वेन तद्विभागेन चेत्यर्थ: } तथा च नित्यानित्यं, नित्यं, अनित्य चेति अचेतनं त्रिविधमित्युक्तं भवति । केचित् - सर्वे क्षणिकं मन्यमाना नित्य न मन्यन्ते ! अक्षरे तु-सत्कार्यवादिनः अनित्यै नाङ्गीकुर्वन्ति । सर्वेऽपि नित्यानित्यं विरोधान्नाभ्युपगच्छन्ति । तन्निरासाय एवकारः । न प्रतिज्ञामात्रेणार्थसिद्धिरिति प्रम्ाणिकत्वमुक्तविभागस्य सूचयति -- मतमिनि । तच्च लेशतो दर्शयिष्यामः । यद्यपि नित्यै, नित्यानित्यै, अनित्यमित्युद्देशः कार्यः प्राधान्यान् । तथाप्युक्तिलाघवाय क्रमोल्लङ्घनम्। श्री विजयीन्द्वतीय: । अत्रापीति । एवकारस्य विधेयान्वितत्वादिति भावः । ननु नित्याऽनित्यविभागेनेत्यादिना विधाद्वयस्य लाभातू त्रिविधत्वोत्कीर्तने विरुद्धमत आहनित्यानित्यविभागेनेल्यस्येति । भावप्रधाननिर्देशाध्याहाराभ्यां त्रैविध्योक्युपपतेनॉक्तदोष इति भावः ॥ लेशत इति ॥ नित्या वेदा इत्यादिनेति श्री वेङ्कटभट्टाः । ननु प्राक्सृतिसंस्थपदेन नित्यसंसारिणामुक्तत्वात्कथं तेषां तमोयोग्यप्रभेदत्वमित्यतः सृतिसंस्थपदं व्याचष्टे – संमार इत्यादिना ॥ अधुनापीति । प्राप्स्यमानतमस इत्यर्थः ! ननु योग्यतायाः फलप्राप्तिपर्यन्तत्वात् कथामन्धन्तमस्थानां तमोयोग्यप्रभेदत्वमित्यत आह -- योग्यताया इति ॥ ** स्वभावास्य योग्यता वा हठाख्या, याऽनादिसिद्धा सर्वजीवेषु नित्या (महाभा. निर्ण. २२-८४) इत्युक्तेरित्यर्थः । ननु स्वतन्त्रतत्वमभावतत्वं, चेत्नत्वं च नित्यम्? अनित्यम् ? नित्यानित्य वा ? न त्रयमपि ? त्रयस्याप्यचेतने तत्र स्वतन्त्रचेतनतत्वयोस्भाक्तत्वमध्येप्यत्यन्ताभावस्य, नित्यत्वप्रमेदत्वेनोच्यमानत्वादित्यत आह-अत्रापीति ॥ नित्यत्वादीत्यादिपदेन नैित्यानित्यत्वब्रहणम् । प्रागभावप्रध्वंसबोर्नित्वानित्यत्विित बोध्यम् । ' नित्यानित्यविमागेने'त्यस्य नित्यानित्यत्वभेदेनेतिवत् नित्यानित्य