पृष्ठम्:तत्त्वसङ्ख्यानम्.pdf/63

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तत्त्वसङ्खयानटीका क्रमेण त्रयं दर्शयेिष्वन् नित्य तावद्दर्शयति-नित्या इति । नित्या बेदाः पुराणाबाः कालः प्रकृतिरेव च । नित्यानिर्लेये त्रिधा प्रोक्तमनित्ये द्विविधं मतम् ॥ ८ ॥ अत्र नित्यत्वं नाम कूटस्थतया आद्यन्तशून्यत्वम् । तच्च वेदानां 'नित्या वेदास्समस्ताश्वे' त्यादिप्रमाणसिद्धम्। अत्र वेदा इत्युपलक्षणम् । पञ्चाशद्वर्णानामव्याकृताकाशस्य च तथाभावात् । नित्यानित्यं विभागेनाह-पुराणाद्या इति ॥ पुराणाद्याः पौरुषेयग्रन्था: एका विधा । कालोऽपरा। प्रकृतिरन्या। श्री विजयीन्द्वतीथः । भावः । प्राधान्यादिति ॥ उपजीव्यत्वादित्यर्थः ॥ कूटस्थतयेति ॥ नित्यत्वं = क्रमाद्यन्तशून्यत्वं, अत्र हेतुः-कूटस्थतयेति ॥ अपरिणामितयेत्यर्थः॥ त्वाभ्यां विभागेनेल्यर्थप्रतीर्ति वारयितुमर्थमाह—नित्यानित्यविभागेनेत्यस्येति ॥ इत्युद्देश इति । अत एव तथैव निदर्शयिष्यतीति भावः । उत्तिलाघवायेति । नित्यानित्यस्य प्रथमोद्देशे। हि विभागपदेन तद्विभागभूतयोर्नित्याऽनित्ययोर्ग्रहणसम्भवादुत्तिलाघवं भवति । अन्यथा हि-नित्यानित्यनित्यानित्यत्वेनेत्यादिरूपेण विभागोक्तिप्रसङ्गन गैौरवं स्यादिति भावः। नित्यत्वं नित्वानित्यन्यावृतं वथा भवति तथा व्याचप्टे अत्र नित्यत्वै नामेति । स्वरूपेण अाद्यन्तशून्यत्वं प्रकृतावपीत्यततद्याख्यानं-कूटस्थतयेति ॥ ननु-क्रमविशेषविशिष्टा वर्णा एव वेदाः, न त्वव्याकृताकाशवदर्धान्तरम्, वर्णाश्च' नित्यत्वात्सर्वगतत्वात् स्वतः क्रमशून्याः, अतः क्रमः बुद्धिनिमित्त एवासेययः ॥ ' उक्तं हि

  • वर्णानां देवतानां च नित्यत्वान्न क्रमः स्वतः । व्यक्तिक्रमं ब्रह्मबुद्धावपेक्ष्य क्रम उच्यते ?' । इति ॥

1. चस्त्वर्थो ।। 2. तत्वनिर्णय उक्तमित्यर्थः ।