पृष्ठम्:तत्त्वसङ्ख्यानम्.pdf/64

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

86. व्याख्याद्वयोपेता ननु च विघेति प्रकारवैविध्यमुक्तम् । न चात्र कश्चित्यकारो दर्शितः । किन्तु वस्तुनिर्देश एव कृतः । नैष दोषः । यन्न सर्वथा कूटस्थं नाप्यनित्यमेव तदुच्यते = नित्यानित्यम् । तस्य तिस्रो विधाः सम्भवन्ति । उत्पत्तिमत्वे सति विनाशाभावः, एकदेशैरुत्पतिविनाशै एकदेशिनस्तदभावः, स्वरूपेणोत्पत्याद्यभावेऽप्यवस्थागमापायवत्वं चेति। तदेतद्विधात्रये उक्तवस्तुत्त्रये अस्तीति तस्यैव ग्रहणे कृतम् । नन्वेवं श्री विजयीन्द्रतीथः । विशेषविभज्यतावच्छेदकप्रदर्शनार्थमेव सामान्यविभज्यतावच्छेदकं तावद्दर्शयति - यक सर्वथेति । सर्वथा उभयन्तरहितभिन्नत्वे सति सर्वथोभयान्त वा भिन्नत्वमित्यर्थः | शास्त्रयविधानामिति । श्री वेङ्कटभट्टाः । तत्कथं वेदानां कूटस्थत्वं? कथं च वर्णानामव्याकृताकाशस्य कूटस्थतया प्रमितत्वात् नित्यानित्यत्वेनानिर्दिष्टस्य नित्यत्वेनानिर्देश इत्यत आह--अत्र वेदा इत्युपलक्षणमिति । अत्रोपलक्षणपदेन लक्षणासामान्यमुच्यते, न त्वजहत्स्वाथें लक्षणा, 'उपलक्षणा च गौणी च तिस्रः शब्दस्य वृत्तय' इति वदिति ज्ञेयम् । लक्षणीयं दर्शयति -- पश्चाशदिति । एवं तच्च वेदानां * नित्या वेदा' इत्यादिपूर्ववाक्यत्यापि कृष्टस्थत्वं वर्णाना, 'नित्या वेदा समस्ताश्रेत्यादिप्रमाणेन, ' तत्क्रमेणैब तैर्वर्णैरेि"ति यदुक्तरवाक्यं तत्सिद्धमित्यर्थः । अत एवे* त्यादौ ? ति अादिपदप्रयोग इति ज्ञेयम्॥ प्रकारत्रैविध्यमिति ।। * सङ्खयायां विधार्थे धा ' इत्यनेन धा प्रत्ययस्य प्रकारवाचित्वादिति भावः । नित्यानित्यं यक्षां नियनित्याभ्यां व्यावर्तते तथा व्याचप्टे - यन्न सर्वथेति ॥ अत्र कूटस्थत्वमवधिविधुरत्वम्, अवधिश्च द्विविधः--पूर्व उत्तरश्चेति, द्विविधोऽपि स्वरूपेण स्वाभिन्नांशेन चेत्यनेकविधः । तथा च स्वरूपेण स्वाभिन्नांशादेश्च पूर्वोत्तरेण चावधिना विधुरं यत् नित्यनया विवक्षित, तद्वत् यन्न भवति, स्वरूपेणाऽवधिद्वयोपेतं यदनित्यत्वेन विवक्षितं तद्वच्च यन्न भवति; तन्नित्यानित्यमित्युच्यात इत्यर्थः