पृष्ठम्:तत्त्वसङ्ख्यानम्.pdf/65

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तत्त्वसङ्खयानटीका ४९ सत्यवान्तरमेदैर्विधान्तरमुत्प्रेक्षितुं शक्यमित्यत एवेत्युक्तम् । तत्र उपपादकाकांक्षायां 'प्रोतमि' त्याह - शाखीयविधानामवैवांन्तर्भावोऽन्यासामनादरणीयत्वे चेति। अथवा 'पुराणानि तदर्थानि सर्वे निमेषा जज्ञिरे विकारोऽव्यक्तजन्म हि ' इत्याद्यागमपरिग्रहार्थे प्रोक्तमित्युक्तम् । अत एव विरोधोऽपि परिहृतः । नन्वत्र यस्योत्पत्त्यादिकं तदनित्यमेव । यस्य तु तन्नास्ति तन्नित्यमेव । नित्यानित्यै काऽस्तीति? श्री विजयीन्द्रतीथ: । मुक्त्युपयोगिज्ञानविषयीभूतविधानामित्यर्थ: । अतएवेति । आगमबाधादेवेत्यर्थः । तद्रं समस्तमिति मूलार्थः । असंसृष्टभिन्नमितिं द्रष्टव्यः । ननु श्री वेङ्कटभट्टाः । उत्पत्तिमत्वे सति विनाशाभाव इति । इयं विधा पुराणादेः, विष्णुतत्त्वनिर्णयादौ विस्तरेणोपपादिता तत्रैव द्रष्टव्या । ननु - भावरूपा ज्ञानाभावावान्तरभेदः विनाशित्वे सत्युत्पत्यभावलक्षणम् । वेदरूपावान्तरभेदें च - उत्पतिमत्वे सतेि विनाशाभावेऽपि क्रम:य- त्यासाभावरूपे च नित्यानित्यविधान्तरं, 'मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयस्सप्त' इत्यादिसाङ्खयेद्युक्तं विधान्तरं चोत्प्रेक्षितु शक्यमित्याशयेन शङ्कते- नन्वेधमिति । तत्रेति । नित्यानित्यविधास्वेवेत्यर्थः । न चैवं नित्याऽनित्यविभागोद्देशयानां स्वशब्दानुक्तिः कथमिति वाच्यम्- तत्र पुराणादेः कण्ठरवेणानुक्तिवदुपपत्तेरिति बोध्यम् । ननु वर्णानां नित्यविभुत्वात्, कालस्य वैशेषिकादिभि: नित्यत्वाझीकारातू, मूलप्रकृतेरपि साहुधैरनादित्वस्याङ्गीकृतत्वात्, कर्थ पुराणादेरुत्पतिरित्याशङ्कापरिहारलेनापि प्रोक्तमियतद्याचष्ट -अथवेति। पुराणानेि तदर्थानीति ।

  • पुराणानि तदर्थानि सर्गे सर्गेऽन्यथैव तु । क्रियतेऽतस्त्वनित्यानि तदर्थाः पूर्वसर्गवत् ॥

इत्यन्तस्य वाक्यशेषप्रतीकग्रहणमिति बोध्यम् । अतएवेति । ।॥ नित्यानि-- यनङ्गीकारहेतुविरोधोऽपि नित्यानित्यस्यागमसिद्धत्वात्परिहृत इत्यर्थः । ननु 7