पृष्ठम्:तत्त्वसङ्ख्यानम्.pdf/68

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५२ व्याख्याद्वयोपेता सृष्टिः स्थितिः संहृतिश्च नियमोऽज्ञानबोधने । बन्धो मोक्षः सुखे दुःखमावृतिज्र्योतिरेव च ॥ विष्णुनाऽस्य समस्तस्य समासव्यासयोगतः ॥ १० ॥ नियमः = व्यापारेषु प्रेरणम् । बन्धः, प्रकृतेः । मोक्षः, बन्धात् । आवृतिज्योतिषी = बाह्यतमःप्रकाशै । एवकारो विष्णुनेत्यनेन सम्बध्यते । अस्य = समस्तस्याखतन्त्रस्य । भवन्तीति Sy: नन्वेतत्पूर्वविरुद्धम् । मम्स्तस्य सृष्टिसंहारोत्तौ नित्यत्वोक्तिविरोधः । अचेतनस्य बोधविरोध इत्यादि । तत्रोत समासेति । समासः = संक्षेपः । व्यासः = विस्तरः । तावेव योगौ उपायैौ उत्तार्थघटनायाम् । ततः इदमुक्तं भवति – – उत्तधर्मेषु यत्र तत्वेऽन्पीयांमस्संमवन्ति तत्र तावन्तो विष्ण्वधीना ज्ञातव्याः । यत्र तु बहवः तत्र तावन्तः। सर्वथा खरूपखभावौ अस्य तदधीनाविति । तत्र स्थितिनियमौ सर्वस्य । सृष्टिसंहृती-नित्यानित्यस्य अनित्यस्य च । अज्ञानं भावरूप दु:खस्पृष्टस्य । ज्ञानाभावस्तु सर्वस्य। बोधने चेतनस्य। मुखें प्राष्मतमसो विना । दु:खें दु:खास्पृष्ट विना इत्यादि द्रष्टव्यम्। पदार्थानां सृष्टयाद्यन्यतोऽपि प्रतीयते। अत एवेत्युतम्। सकल श्री वेङ्कटभट्टाः । । दित्यर्थः । मतमिति। उन्नतमिति । मतं=प्रमितम्॥ तथा च प्रमाणानुसारेण युक्तया विचार्य सम्यक्ताया निर्वतुमशक्यतया त्रैविध्यमेव सिद्धमित्यर्थः । तद्वक्ष्याम इति । ननु एतेषा 'मित्यादिनाऽऽक्षेपपूर्वकं विचार्ये साक्षान्मूलरूपस्य नित्यस्याभावे सत्युत्पन्नत्वं संसृष्टत्वम्, साक्षान्मूलरूपस्य नित्यस्य सत्त्वेऽपि उत्पन्नत्वमसंसृष्टत्वमिति वक्ष्याम' इत्यर्थः । बह्वागमविरोध इति। अगमस्य बहुत्वयोतनायैव संप्रेत्युपसर्गद्वयमिति भावः । वाशेति । ' अज्ञानबोधन।' इत्यनेना अन्तरतमः- प्रकाशयोरुतत्वादिति भावः । भावरूपमिति ।