पृष्ठम्:तत्त्वसङ्ख्यानम्.pdf/69

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तत्त्वसङ्खयानटीका ሣላፍ सत्तादेस्तदधीनत्वात् तत्तद्वस्तुनिमित्तमात्रमेव । स्वातन्त्र्येण विष्णुरेवास्येश्वर इति । पद्मापद्मासनाऽनन्तप्रभृतीदं यदिच्छया । सत्तादि लभते देवः प्रीयतां श्रीपतिस्स मे ॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिततत्वसङ्यानविवरणं श्रीमज्जयतीर्थभिक्षुविरचितं । सम्पूर्णम् । श्रीकृष्णार्पणमस्तु श्री विजयीन्द्रतीर्थाः । एवमेव प्रमाणसद्भावादिति भावः । श्रीसुरेन्द्रगुरोश्थ्यिविजयीन्द्रविनिर्मितम् । समाप्तं तत्वसङ्खयानव्याख्याया भाववर्णनम् | इति श्रीमद्विजयीन्द्रमिक्षुविरचित तत्वसङ्खयान व्याख्यानं भाववर्णनं समासम् ॥ श्रीकृष्णार्पणमस्तु । श्री वेङ्कटभट्टाः ॥ ब्रह्मादीनां प्रकृतिबन्धसत्त्वादिति भावः ॥ ज्ञानाभाव इति । रमायाः प्रकृतिसम्बन्धाभावेऽपि ' ईश्वरे ज्ञानाभावसत्त्वादिति भाव इति प्रतिपादितम् | प्रतिपादितगुणवन्तं भगवन्तं अन्तेऽपि स्तुवन् तत्प्रीर्तिं प्रार्थयते पद्मेति । कमलाकमलोद्धतमुखें यदखिले जगत् । 8 परतन्त्रमिदं यस्य वशे स प्रीयतां हरिः | 1. ईश्वरविषय इत्यर्थः ।