पृष्ठम्:तत्त्वसङ्ख्यानम्.pdf/71

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्री: श्रीमद्वैदव्यासाय नम: । ॥ श्री अनन्ताचार्यविरचिता 'तत्वदीपिका’ ॥ नारायणं परं ब्रह्म रमां मध्वं पृषत्पतिम् । शिवादीन् मध्वशिष्यांश्च श्रीमञ्जयमुनीन् गुरून् ॥ १ ॥ येऽध्यापयित्वा निगमान् मध्वसिद्धान्तमादिशन् । नरसिंहार्ये वर्यास्तान् भूयो भूयो नमाम्यहम् ॥ २ ॥ येषां पुखाम्बुजाच्छुत्वा यतयो गृहिणस्तथा । व्याचख्युर्मध्वशास्त्र हि नृसिहार्यान् प्रणौमि तान्। ३ ।। नरसिहार्यवर्याणां गुरूणां करूणाबलात् । व्याकुर्वे तत्वसंख्यानव्याख्यानं नातिविस्तरम् ॥ ४ ।। तत्वसंख्यानं व्याचिख्यासुः श्रीमज्जयमुनिः ग्रन्थादौ मङ्गलमाचरन् चिकीर्षित प्रतिजानीते - लक्ष्मीपतेरिति । गुरोरपि तत्ववादाचार्याणां अक्षोभ्यतीर्थानां चेत्यर्थः । तत्वसंख्यानेति | तत्वानां संख्यानं यस्मिस्तत् = तत्वसंख्यानम् । यद्वा करणे ल्युट् प्रत्ययः । तद्याख्यानमित्यर्थः । नातिविस्तरमिति विस्तरशब्दं प्रयुञ्जानस्य इह ग्रन्थे शब्दप्रपञ्चनमेव नास्ति । अर्थप्रपञ्चनं तु विद्यत एवेति भावः । ननु इदं प्रकरणं प्रयोजनाद्यभावाद् व्यर्थम् । अपि च स्वतन्त्रतत्वनिरूपणेनैव प्रयोजनसिद्धेः परतन्त्रनिरूपणं व्यर्थम् । अपि च शास्त्रप्रतिपादितत्वादिदं किमर्थम् ! इत्यत आह--(पुट-२) मुमुक्षुणेति । इदं चेति जगदुदयादिनिमित्तत्वेन ब्रह्मज्ञानमित्यर्थः । एतेनार्थशब्दस्य प्रकृतत्वात् इदमिति कथं परामर्श इति परास्तम् । (पुट-३) प्रधानेति । प्रधानभूतं यत् स्वतन्त्रतत्वं अङ्गभूत यत् परतन्त्रतत्वं तत् द्वयमित्यर्थः ॥ (पु. ७) तेनेति । ` 1. पषद:=वायोः, पतिम ।