पृष्ठम्:तत्त्वसङ्ख्यानम्.pdf/72

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

“ጓጻ तत्वदीपिका तस्य भाक्स्तत्त्वं चेत् तत्वलक्षणधर्मस्य द्वैविध्यकंथनं न युज्यते इत्यादि खण्डनानवकाश इत्यर्थः । (पु. ८) अतिव्याप्तिं शङ्कते--नन्विति । तदेवोपपादयति---न हि धर्मति । धर्मी शुक्तिरित्यर्थ: । यद्वा तादात्म्यारोपस्थलमुपपादयतिधर्मीति । रजतमित्यर्थः । संसर्गारोपस्थलमाह-रजतत्वं वेति ॥ नापि तयोः सम्बन्ध इति । न प्रमेय इति शेषः । इदमत्त्राकूतम् । इदं रजतमिति श्रान्तिविषयाणां.... कतत्वादीनां देशान्तरे सत्त्वेन वस्तुतः तत्वप्रमाविषयत्वमस्त्येवेति | (पु. ९) स नास्तीति । सः सम्बन्घः इत्यर्थः । न प्रमेय इतीति । अन्यत्र प्रमितत्वादिति भावः । नये दोष इति । ननु अत्यन्तासदेव आरोप्यत इति वादेऽपि अतिव्याप्तिस्तदवसैथैव । शुक्तिरजतादेरपि बाधकपमाविषयत्वात् । न च सत्वे सति इति विशेषणं दीयत इति वाच्यम् । तावतैव पूर्ते: प्रमाविषय इत्यस्य वैयर्थ्यप्रसङ्गादिति, नैषदोषः । अस्तीति प्रथमं यद्विधीयते तत् प्रमाविषय इति विवक्षितत्वात् । न च शुक्तिरजतज्ञानमस्तीति प्रमाविधेयत्वमस्तीति वाच्यम् । तत्वज्ञानसैयैव विधेयत्वात् । न चाभावेऽव्याप्तिः । अभावोऽस्तीति कदाचित् प्रतीतिसम्भवात् । अत एव नातीतानागतयोरव्याप्तिरिति दिक् । (पु. १०) पूर्वस्य तथात्वादिनि । तदनमंत्स्यिात्यन्ता - सत्त्वादित्यर्थः । (पु. ११) स्वरूपेति ॥ स्वरूपे स्वप्रतीतौ स्वप्रवृत्तौ च परानपेक्षमिति प्रत्यकं लक्षणमिति भावः ॥ (पु. १४) नापीति । न हीदं नास्तीति बाधकं, किं तु अत्रेदं नास्तीति सावधित्वनियमात् सावधित्वं वाच्यम् । तथा च अवर्षिरेव तत्वमित्यर्थः । यद्वा बाधविषयस्य तत्वतानिवृत्यर्थ तस्यापि बाधी वाच्यः । तथाचानक्स्था स्यात्। न चैव दृश्यत हत्याह-नास्तीति ॥ (पु. १५) अनवस्थितेरसम्भवाचेति ॥ एकस्वान्यो नियामकश्चत् तस्याप्यन्यः तस्याप्यन्य इति अनवस्थितिः | तेन जीव