पृष्ठम्:तत्त्वसङ्ख्यानम्.pdf/74

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ԿՀ तत्वप्रदीपिका प्रध्वंसात्मकस्यापि सत्त्वात्। प्राग,भावादिलक्षणमपि न शोभते । पूर्वोत्तरावधिप्रागभावादौ अव्याप्तेः। न च घटादौ प्रागभावादिव्यवहार उपचारत इति वाच्यम् । अन्यस्य प्रागभावादेर्वतव्यत्वापातात् इत्यावचारितसुन्दरमेतदिति चेत् ।-- अत्र ब्रूमः । भावाभावैौ द्विधेति न युज्यत इति यदुक्तं ततुच्छम् । अभावप्रतियोगिकपागभावभावध्वंसयोभवत्वनियमेन भावाभावात्मकस्याभावात्। अन्यथा अभावाभावातिरिक्तभावाभावेन भावपदार्थी दत्तजलाञ्जलिकः स्यात् । भावलक्षणाभावे भावित्वाड्रीकारविरोध: । अभावलक्षणाभावे ध्वंसत्वाद्यभ्युंगमविरोध: । ततश्रो भयात्मकत्वानङ्गीकारण अन्यतरम्यातिध्याप्तिरित भावेन किंचेति यदुतं तदसारम् ।। अश्वस्य मेंन्धन्त्वनिर्वाहाय लवणशव्दवाच्यत्वं वाच्यम् | अश्वत्वनिर्वाहाय अश्वश्शब्दवाच्यत्वम् । ततश्च व्यवस्था न स्यात् इत्यादि वर्नु शक्थवेन व्यवहारमात्रच्छेदप्रसङ्गात्। तथापि यदि शिष्यभावेन कथमिति बूर्ष, तदा अवधानेन श्रृंणु। ध्वेसादयो द्विविधाः । भावा अभावाश्चात । तत्राभावप्रतियोगिको भावः । भावप्रतियोगिकोऽभावः । ततश्च विभागोऽनुपपन्न इति शङ्कानवकाश इति | अभावपदार्थधैव वैविध्यमुच्यते न त्वभावशब्दवाच्यस्य इति | किं चा भावनैविध्यमिति यदुत्त तदलीकमेव । प्रागभावादीति यदुत तदप्यतिमन्दम्। विभागानुसारेण भावप्रतियोगिकयैव लक्ष्यत्वात् । न चेति यदुक्तं तदप्यसत् । मुख्यत एव व्यवहार इत्यङ्गीकारात् ! एवभभारं वदता अविचारितसुन्दरमेतदिति लज्जां विहाय कथमुक्तमिित चिन्त्यम् । न च ध्र्वसम्य प्रागभावश्वविरोध इति वाच्यम् । प्रतियोगिभेदेन पितृपुत्रत्ववत् अविरोधादिति सन्तोष्टव्यम् इति दिक् । ननु पूर्व द्वैविध्यस्यानुक्तत्वात् अपशब्दो न युज्यन इत्यतो विभागापेक्षया समुच्चयो युज्यन इत्याह - {पु ३७) न केवलमिति । (पु. ४०) व्यटिसमष्टिभेदेनेति । मुक्तामुक्त,भेदेनेत्यर्थ इति केचित् । व्यष्टयो ब्रह्मादिसृष्टाः । समष्टयो विष्णुसृष्टा इत्यर्थ इत्यन्ये । सत्यम्। योग्यायोग्यमेदम्येति।