पृष्ठम्:तन्त्रवार्तिकम्.djvu/१०७७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०११ तृतीयाध्यायस्य चतुर्थः पादः। अयमप्यनारभ्यवाद एव । सौमेन्द्रं च निर्वपद्यः ममं वमतीति । तत्रापि पूर्ववदेयधिकरणद्वयमपि वि चर्यते । लौकिकसोमपाने रसायनाश्चर्यं कृते वमनेन व्यपने सोमेन्ट्रयागः उत वैदिके उभयत्रापि । तत्र तद्वदित्यनेन सामान्यपक्षे दोषात्विष्टिलौकिक स्यादि- त्ययं चतिदिश्यते । अथ वाधिकरणद्वयमपि सिद्धान्तः रूपगणाधिकरणद्वये ऽप्यतिदिश्यते केन चिद्विशेषेण पूर्व पक्षरचन । तत्रेह ताबहैडिकेन पानेनः द्रव्यप्रतिपादन स्य कृतत्वान्न कदा चिद् भेषे पुनः प्रतिसमाधानपेक्षा स्तौत्यनर्थकमिष्टिबिधानम् । लौकिके तु वमनेन व्या- पन्ने रसय नगुणाभावादिन्द्रियेण वर्येण च व्यूयः संभा व्यते । न जलोदवदत्यन्तासंभावना । तत्संयोगे च भृथ माणेष्टिस्तरसमाययैव विज्ञायते । तस्मात्तत्र स्यादिति । दोषात्तु वैदिके स्यादद्याद्धि लौ- किके न दोषः स्यात् ॥ ३६ ॥ तैरेव वैदिकस्वसामान्यादिभिर्वेदिक भवतीति क स्यान्नोच्यते । म हि वमने वैदिकत्वं संभवति अचोदि- तत्वात् अतो य एव दोषो लौकिकगामित्वे हेतुः स एवेह वैदिकविषयत्वे स्यात् । तथा हि । सम्यक् जरणरूपन्ता प्रतिपत्तिर्विधीयते । सद्यापदि प्रधानस्य न भवेत्पूर्ववत्रफलम् ॥ न च तव लौकिकयंनव्यापदि दोषोस्ति । वमनार्थ- मेव पानात् । अथापि भवति तथापि वैद्यकेनैव तस्य