पृष्ठम्:तन्त्रवार्तिकम्.djvu/१२१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५३
प्रथमाध्यायस्य द्वितीय: पाद ।


तत्रैव वर्तिष्यते। यदि चाश्वाभिधानीमिति सम्बन्धः स्यात्ततः प
रिसञ्चीतापि । न त्वसावस्ति । कारकाणां क्रियापरिहारेणा
न्योन्यसम्बन्धाभावात् । तेन वाक्यमपि क्रिययैव सम्बीयात् ।
एका च सा । प्रकरणापूर्वसंयोगवाविशिष्टस्तस्मान्न परिसह्या
प्रयोजनं कथयति । अतो न प्रमाणं बर्चिरित्यादि । तदा हि म
हाप्रयोगवचनेन सर्वे मन्त्राः केवलप्रधानाथर्यास्तत्प्रयोगाबहि
भर्भाववृत्तयो नाङ्गेः सम्बन्ध्येरन्। पाठक्रमानुरोधातु तदापि नैव
व्यत्क्रमेण प्रयोगः कर्माण्यनादृत्य सकृदेवानुवाकमध्यायं वा प
ठित्वा ऽनष्ठीयते ॥

वाक्यनियमात् ॥ ३२ ॥

अग्र्मिद्वेति यो ऽर्थः प्रतीयते स मह्वनिरित्यनेनापीत्यनर्थ
की नियमः । यस्य त्वदृष्टार्थता तस्य क्रमान्यत्वे तदुचारण
जन्यादृष्टप्रमाणाभावात् क्रमान्यत्वं न युक्तमिति नियमार्थव
ता। अथ नियतप्रत्यायनाददृष्टं कल्प्येत तदुचारणादेवोपपद्यते
तदधीनत्वान्नियतप्रतीतेः । यस्तु दृष्टार्थेषु प्रकृतिप्रत्ययसमासेषु
नियमो दृश्यते । यथेन्द्राग्री नीलोत्पलं राजपुरुषश्चित्रगुर्निध्कै
शाबिरिति । युक्त तत्र विपर्यये ऽपशब्दार्थान्यत्वानर्थकयप्रसङ्गा
त्। अजाद्यटन्तविशेषण(१)त्वादिनिमित्तो हि तव नियतः पूर्व
निपातः स्मर्यते। तेनाग्रीन्द्रावित्यसाधुत्वं पुरुषराज इत्यर्थान्यत्वं
कैौशाम्बिनिरित्यनर्थकत्वम्। यस्खीन्द्राविति छ चित्प्रयोगः स
च्छान्दसे प्रेर्वा ऽभ्यर्चितत्वस्य विवठायेति मन्तव्यम्। तुल्यकशा
र्थप्रतीताविन्द्राग्रोपटमेव व्यवस्थितम। नन्विचापि क्रमान्यत्वाद


(१) आजाद्यदन्तोपसर्जनेति पाठः ‘स्व'पुस्तके ।