१० तन्न्नवार्तिके । . पराधीनप्रमाणत्वान्न प्रमाणपदे स्थिता । श्रुत्या बाधितमावासैौ पुनन्नेजीवितुं क्षमा। तुल्यकक्षविकल्पो ऽपि नाप्रामाण्येख्यकल्पिते । प्रमाणस्याप्रमाणत्वकल्पना च द्विदोषभाक् । प्रमाणत्वं प्रतीतं यदुज्वलन्तट्पहुतम्। एकस्तावदयं दोषः स्यात्प्रतीतिविपर्ययात्। तथा तदप्रमाणत्वं यदभावप्रमाणकम्। भावे सत्यथ भावेन विनैव परिकल्प्यते । सो ऽपि स्याट्परो दोषः प्रमाणार्थविपथ्र्ययात् । अङ्गीकृत्यापि तैौ दोषेौ पूर्व केनापि हेतुना। प्रयोगान्तरकाले तु पुनद्दाषइयं भवेत्। यदभावप्रमाणत्वं पर्वमतस्य कल्पितम । सम्प्रत्यपङ्गवानस्य दोष एको हि जायत प्रत्यक्तं दृढरूपं च यत्पुरतान्निराकृतम् । एष जायेत दोषो ऽन्यस्तदुज्जीवयतः पुनः। एवमेकत्र चत्वारो दोषा वाकये प्रदर्शिताः । रतएव प्रसज्येरन्द्वितीये ऽपि प्रकल्पिते । एवमेषो ऽष्टदोषो ऽपि यद्रीहियवाक्ययोः ॥ विकल्प आश्रितस्तच गतिरन्या न विद्यते । ब्रीहिशाखप्रवृत्तौ हि यवशास्त्रेण कृष्यते ॥ श्रोता तत्र प्रवृो ऽपि त्रीविशास्त्रेण कष्यते । द्वाभ्यामश्वमखीवच श्रतिभ्यामभितः समम । एकझिनुपसंचर्तु बुहिं युक्तया न पश्यतः।
पृष्ठम्:तन्त्रवार्तिकम्.djvu/१५८
एतत् पृष्ठम् अपरिष्कृतम् अस्ति