पृष्ठम्:तन्त्रवार्तिकम्.djvu/१९३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमाध्यायस्य तृतीय * पादः । १२९ षितं प्रमाणेनाविरुद्धमिति चेन्न । शाखपरिमाणत्वात् । परमितान्येव हि चतुर्दशाष्टादश वा विद्यास्थानानि धम्मप्र माणत्वेन शिष्टः परिगुहीतानि वेदोपवेदाङ्गोपाङ्गाष्टादशधर्म संहितापुराणशाखशिादण्डनीति संज्ञकानि न च तेषां मध्ये बैौद्वार्चतादिग्रन्याः स्मृता गृहीता वा ॥ प्रतिकञ्चुकरुपेण पूर्वशाखार्थगोचरम्। यदन्यत्क्रीयते तस्य धर्म प्रत्यप्रमाणता ।। तथा च प्रायश्चित्तादिदानकाले यो वाक्यमात्मीयमन्यकविकृ तं वा स्रीक सूत्रं वोच्चार्य मानवादिप्रायश्चित्तं दद्यान्न कश्चि दपि धर्मार्थ प्रतिपद्येत । नित्यानामभिधेयानां मन्वन्तरयुगादिषु । तेषां विपरिवत्तेषु कुर्वतां धम्र्मसंहिताः । वचनानि प्रमाणानि नान्येषामिति निश्चयः । तथा च मनोचचः सामिधेन्यो भवन्तीत्यस्य विधेर्वाक्यशेष श्रूयते। मर्नुर्वं यत्किं चिट्वट्त्तङ्गेषजं भेषजताया इति प्रायचि ताद्यपदेशवचनं पापव्याधेभेषजम् । न वैतच्कृतिसामान्यमात्रं नित्ये ऽपि संभवात् । यज्ञे ऽध्वर्युरिव ह्यति मनुम्र्मन्वन्तरे संदा ॥ प्रतिमन्वन्तरं चैवं स्मृतिरन्या विधीयते । खितापूच मनवो नित्यं कल्पे कल्पे चतुर्दश । तेन तद्वाक्यचेष्टानां सर्वदैवास्ति संभवः । तदुक्तिज्ञापनाद्वेदो नानित्यो ऽतो भविष्यति । प्रतिच भवन्त्यन्ये सर्वदा षोडशर्विजः।