पृष्ठम्:तन्त्रवार्तिकम्.djvu/२५६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८८ तन्त्रवार्तिके । इदानीं तु यदाचारमत्यन्तमनुवर्तते । तत्प्राच्यादिसमाख्याख्यमपन्यस्तं विशेषणमम् । सर्वे हि देशाचाराः प्राच्यदाशिणात्यादिसमाख्यातैः पुरुषे क्रियन्ते समाख्यावर्जितेषु च नोपलभ्यन्ते । तस्मात्समाख्यावि शिष्टविध्यनमानात्तत्संयक्तप्रमाणपश् एव ज्यायानिति । तत्र सु माधिः ॥ श्राख्या चि देशसंयोगाद्यसात्कर्तृषु वर्त्तते। श्राचाराणामतः प्राप्तो विधिर्देशविशेषणः ॥ देशद्य दिग्विशिष्टः स्याद्दियूपं चानवस्थितम् । न च तद्देशसंबन्धादनाचारो ऽनुवर्त्तते । निर्गतेष्वपि दृष्टत्वात्तङ्गतेष्वप्यदर्शनात् समाख्यायास्तावन्न देशादन्यन्निमित्तमस्ति तद्विशिष्टविधि विचिताद्याचाराः केवलमेव तद्देशसंबन्धमनुवत्र्तेरन्। उभयथा पि तु व्यभिचारान्न दशानिमित्तसमाख्या विशिष्टविधानकच्पना घटते । अपरस्त्वनयैवोपपत्त्या लब्धात्मीयपक्षोपपत्तिः प्रत्यव तिष्ठमान श्राद्द न स्याद्देशान्तरेष्विति चेदिति ।॥१५ ।। यदि देशनिमित्तत्वात्समाख्या दूषिता त्वया। शक्यमन्यनिमित्तत्वं वक्तमस्या मया एन । मति देशनिमित्तत्वे न स्याद्देशान्तरेष्वियम् । तस्माकिमपि जात्यादि ध्रुवमस्या निबन्धनम् ॥ अस्तु वा निर्निमित्तैव विशेच्यति तथापि तु । लब्धाचारनिमित्तानां किन्निमितान्तरेण नः ॥