पृष्ठम्:तन्त्रवार्तिकम्.djvu/३३४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११२ तस्रवार्तिके । अभावः प्रत्ययार्थस्य विधेरप्रतिपादनात् । अर्थान्तरे च शब्दस्य न प्रयोगो विधीयते । वेदेनशस्त्र तुत्वसंबन्धस्येति दि स्थितम्। किं चाविभक्तरूपत्वं प्रत्यभिज्ञायते स्फुटम् ॥ वैदिकेष्वपि शब्दषु प्रत्यक्षेण पुनपुनः। यद्वा विभगशब्देन शब्दस्यचरणे सति ॥ गोत्वबुद्धेः समानत्वन्न भेद इति कीर्यते। लक्षणस्टविभक्तवं शब्दानां वेदमुच्यते । सर्वथा शक्यते भेदो न वक्तं शब्दव।च्ययोः। एकवे याज्ञिकानां च प्रसिद्भिरनुगृह्यते ॥ मीमांसा चापि वेदार्थतत्त्वनिर्णयकारणम् । व्यपदेशादिभेदैश्च न भेदोत्रनुमीयते ॥ प्रत्यक्षप्रत्यभिज्ञते वेदशब्दे ऽन्यरूपता। व्यपदेशादिभेदश्च स्खरभेदादिकारितः ॥ खरादयश्च भिद्यन्ते वेदत्वात्किमिहोच्यते । खरयूपादिशब्दानामन्यत्वेनेतरत्र च ॥ नान्यत्वं युज्यते बाधात्प्रत्यक्षप्रत्यभिज्ञया। वचनाद्धर्मभेदस्तु शद्वर्जिततपि वा । धम्मपृच्चारणस्यैनै न शब्दस्य खरश्च यः। अश्ववालादिशब्दार्थभेदे वचनकरिते ॥ न च भिन्नवमन्येषु प्रज्ञातार्थेषु युज्यत । उत्सनानां च केषां चिद्दचन न विधीयते । गोत्वं तेषामसिदत्वत्पदर्थाशदणदपि। विधेरन्यस्य शशेषत्वम् स्तुतिरेषा अवगम्यते ।