च साम्प्रदायिकमित्यस्यापरा व्याख्या । संप्रदायः प्रयोजनं यस्य
वाक्यस्य येन प्रवर्त्तितः संप्रदायस्तस्मात्खाध्यायो ऽध्येतव्य इत्ये
तत्खाध्यायत्वाविशेषाद्विध्यर्थवादयोस्तुख्यमतः प्रागुक्तन न्या
येन प्राक परुषार्थसिद्देरवस्यातं न लभ्यतइति शक्तयनसारेण
स्थितमर्थवादानां स्तुत्यर्थमिति ॥
उक्तदोषपरिहारो ऽतः परम् । शास्त्रदृष्टविरोधिका यात्रा
नुपपत्तिर्विधिकल्पनायामुक्ता तामस्झत्यक्षप्राप्तां (२) मन्यामहे ।
अथ वेदं स्तुतिव्याख्यानं तामनुपपत्तिमप्राप्तमिति व्याख्येयं येषां
ज्ञखः पाठः । प्रयोगे ह्यनष्ठाने रोदनवपोत्खननदिङ्मोइस्ते
यानृतवादादीनां कल्प्यमाने विरोधः स्यात् । अस्माकं तु पुनर्य
एषां शब्दानां श्रेतो ऽर्थः स नेव विवशित । न चाध्याहारा
दिभिर्विधिः किं तर्हि स्तुतिमात्रं विवक्षितम् । न च तद्विरुद्धद्यते
तस्मादुपपद्येत । अथ वा शब्दार्थोस्त्विति विधायकशब्दानुग्र
हार्थः सन्नयमर्थवादो न खार्थानुष्ठानेन संबध्यते प्रयोगमप्राप्ती
ऽप्रयोगभूतस्तस्मादुपपद्येत। चयोऽत्र पाठाः। अप्राप्तां चानुपप
त्तिमित्यत्र मन्यामहइति वाक्यशेषः । अप्राप्त चानुपपत्तिमित्य
परस्तत्रास्मइयाख्यानमित्यध्याहारः । अप्राप्ता चानुपपत्तिरित्यप
रस्तच्चास्मत्पशे विज्ञेयेति ॥
(१) अप्रप्तां चानुपपत्तिमिति पाठो 'ड' पुस्तके । (२) तां स्तुतिपदामप्रामिति 'स्व ग घ' पुस्तकेषु ।