पृष्ठम्:तन्त्रवार्तिकम्.djvu/९६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९८
तन्त्रवार्तिके ।


नट्सत्यं नामैतत्किमप्यन्यद्वाप्स्यामीति ज्ञात्वा ऽनुतिष्ठति। एवं
वेदे ऽपि विधिना तावत्फलमवगमितमर्थवादास्वसत्येन नाम
प्ररोचयन् न तङ्गते सत्यासत्यत्वे किंचिद्दषयतः प्रवर्तनमात्रोप
कारित्वात्। यत्त परस्ताङ्गविष्यति तद्विधेरुपरि गतमिति निश्चि
त्यनैव विद्वांसो न प्रवर्त्तन्ते तस्मादुपाख्यानासत्यत्वमतन्त्रम्(१)।
न हि शक्तिकाद्वष्टसत्वरजतो यदि रजतान्तरं तद्देशे लभते
ततो ऽभिसन्धीयते । शक्तिकावत्तु किंचिदालम्बनं श्रुतिसामा
न्यमाबेण सर्वत्र योजनीयम्। यथेह महाभूतानि प्रजाः पान्ती
ति प्रजापतित्वेनोच्यन्ते । वाय्वादीनां यथासंख्येन मध्यवर्तिनः
सारावृष्टयाट्यो वपास्तामग्राविति तेनेव क्रमेण वैद्यते वृष्टि
माबसेि शरीरान्तर्वर्तिनि वायुमन्तश्रवसामान्याद्रश्मिं लै
किक तदाप्यायनात्तस्य । ततो ऽज इति बीजादीनां सामान्ये
नानादित्वादजत्वप्रसिद्धेः । तमालभ्य प्राप्य प्रजाः पशूनाऽोति
सर्वप्रजानां व्रीह्यादिपरिणामप्रभवत्वादित्यालम्बनम्। एतस्मिं
स्तु प्रक्रमे सत्यं सानुबनता किं तु स्तुतित्वमेव क्षीयते । अतः
स्तुतित्वात्यागेनैव खार्थसत्यतां वर्णयामः।मन्त्रार्थवादेतिचास
प्रामाण्यात्वष्टिप्रलयाविष्येते तत्र सृष्ट्यादै प्रजापतिरेव योगी
तस्मिन्नाले पुण्यकर्मेङ्गवाभ्युपगमेन पश्नामभावात्खमाचा
त्येनामन एव पश्रूपमभिनिर्माय वर्षीत्खननादिकृतवांस्ततो
ऽसमाप्तएव कर्मणि द्वपरः पशुरुत्थितः इतीदृशमिदं कर्म प्रत्या
सन्नफलम्। एवं च महता यत्रेन प्रजापतिना चरितमिति सर्वे
सत्यमेव । प्रतिवद्धष्टि चतुल्लङ्गन्यायन तख्यनामप्रभावव्यापारव
रवृत्पत्तननित्यताप्रसङ्ग इति। कर्मसु कौशलेनदीव्यन्तीति देवा


(१) तस्मादुपाख्यानानां सत्यत्वमिति 'घ' पुस्तके ।