तिलकमञ्जरी।
लशरासारत्रासिता हंसीव मेघागमे पल्वलमनवश्लोकिताश्रयविसंस्थुला
सैन्यपतिवक्षस्थलममुश्चत् । राजलक्ष्मीरुद्धान्तहृदया च क्षणं बाहुशिरसि,
क्षणं धनुषि, क्षणं कृपाणधाराम्भसि, क्षणमातपात्र(पत्रे), 'क्षणं
मदाध्वजेषु क्षणं चामरेण्वकुरुत स्थितिम् । अहं तु तां तस्य वज्रायुधस्य
विपदमप्रतिविधेयामुपनतामवलोक्य किंकर्तव्यतामूढः स्तम्भित इव
मुहूर्तमतिष्व(छ)म् । प्रलयवशाच प्रत्यानीतधैर्य इतश्चेतश्च धावता
हृदयेन तस्य प्राणपरिरक्षणोपायान्मृगयमाणः सततमासन्नवर्त्यपि व्याकु-
लतया मुहूर्तमपसृतं स्मृतेगिति तत्पुरा परमेश्वरेण प्रहितमङ्गुलीयक
बालारुणमसरम् । उच्छृसितहृदयश्च तदभिनन्ध बहुपकारमादरकृत-
प्रणामः पाणिना दक्षिणेनोदक्षिपम् । आक्षेपश्चलद्वाणिश्च तत्क्षणमरा-
तिवाणोन्मथितकेतुच्या सेनान्यमुश्बैस्तरेण खरेणावोचम्-
"दण्डाधिप, कृतं तावदपरायुधपरिग्रहेण । गृहाण बालारुणाभिधान-
मिदममोघं प्रहरणम् | मनेन परिगृहीतभुजदण्डशक्तिर्विधेहि निरव-
महासरस्य विद्विषः प्रतापखण्डनम् । अकाण्ड एव निर्व्याजपौरुषतया
मा स्म विस्मरः खामी(मि)कार्यम् । असौ तु सास्य इव तन्मदीयव.
चनमवधार्य कृतावधीरणो रणरसोच्छसितगात्रयष्टिराविष्ट हव रे रे
दुरात्मन् ! दुर्ग्रहीतधनुर्विधामदाध्मातविणाधम, बधान क्षणमात्रम-
अतोऽवस्थानम् । अस्थान एव किं दृप्यसि । पश्य ममापि संप्रति
शस्त्रविद्याकौशलम्' इत्युदीर्य निर्यस्पुलकमसी(सि)लताग्रहणाय दक्षिणं
प्रसारितवान्बाहुम् । अरिवधावेशविस्मृतात्मनश्च तस्योल्लसितकोपसाटो-
पकम्पितालो कराप्रभागे गृहीत्वाालीमेकां तदहमालीयकमति-
ठिपम् । अधिष्ठितश्च स तदीयच्छायया तत्क्षणमेव दिमागदन्तमुशल
इव वनपतिमया, महाहिमोग इव मणिप्रभया, समुद्रोमिरिव वाडया-
चिंषा, कामप्यभिरामतामधृष्यतां पर्यपुष्यत् ।।