पृष्ठम्:तिलकमञ्जरी.pdf/११७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०० काव्यमाला। पारमतिचिरमतिष्ठत् । अनुरागतरलितश्च तत्रैव गत्वा तं द्रष्टुमिक परिष्वनुमिव संभाषयितुमिवाभ्यर्चितुमिव खपदेऽभिषेक्तुमिव चेतसा- भिलषितवान् दर्शनोत्सुकश्च पुनरवोचत्-'विजयवेग, कास्ते स सिंहलेश्वरसूनुः कदा च सोऽसान् द्रक्ष(क्ष्योति । स जगाद-'देव, स स(श)कावतारोधानसंनिधे रमणीये सरथ्वाः परिसरे निवेशितशि- बिरस्तिष्ठति । दर्शनं तु यदैव देवः प्रसीदति तदैव करोति ।' तन्मृत्वा नरपतिरासन्नवर्तिनमत्युदारवेषं साकारवपुषमम्पर्हितमशेषस्यापि परिग्रहस्य महत्सु कार्येषु व्यापारणीयं हरदासनामानं महाप्रतीहारमा- कारणाय तत्क्षणमेव तस्य प्राहिणोत् । स गत्वा सपरिवारस्तदावासे कृतसमुचितोपचारो बहुप्रकारोपवर्णितं नरेन्द्रानुरागनिवृतं कृताञ्जलि- पुटस्तं राजकुलमानिनाय, प्रावेस(श)यच्च । दर्शितप्रश्रयातिरेकोऽभ्यन्तरं प्रविष्टं च तं घृतविदग्धोज्वलवेषकतिपयाप्तपदातिपरिवृतम् , आलोक- नोपजातसंक्षोभसरभसापसुतेन द्वारवर्तिना राजलोकेन दीयमानमार्गम् , अप्रयायिना विनयपेशलालापेन दौवारिकजनेनागम्यमानम्, आत्म- प्रतिबिम्बकैरिव समानरूपैः समानवयोभिः समानवसनालंकारधारिभि- रज्यभिचारिभिः प्रधानराजपुत्रैः परिवृतम् , उपान्तप्रसढकल्पपादप- विटामिव पारिजातपोतम्, दिगन्तरव्यापिना कुवलयदलश्यामलेन खदेहप्रभासंतानेन तिरोहितसर्वाकारम् , अन्तुराशिजलमध्यवर्तिनं मैना- कमिव विमान्यमानम् , अनवरतमुन्मिषता निसर्गस्निग्धेन कर्णपूरमौ- किकस्तबकेन कृत्तिकापुञ्जनेव कुमारशब्दविप्रलब्धेन कृतमुखालोकम् , १. उपान्ते निकटे प्रजाः कल्पपादपस्य बिटपा यस्य पारिजातपोतस्य तम्, समानराजपुत्राणां कल्पपादपेनोपमा. २. कुमारस्य स्कन्दस शब्देन रयाला विप्रलम्भन कुमार आगच्छेति कुमार विजयसादिशब्देन.