पृष्ठम्:तिलकमञ्जरी.pdf/१४५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२८ काव्यमाला। विशालैः पदैः परिस्त्वरस्तोलिताकुहिमतले पतन्त्याच तस्याः सोपा- नपथसंनिधौ सत्वरमुपेत्य तेनावलम्बितो गृहीतप्रवाल इव बालवनल- तायाः करिकलभकेन बिग्धसुकुमारसरलारुणालिदक्षिणः पाणिः प्रमुक्तपाणिना च मधुरमभिहितासितमुखेन–'सुमुखि, किमिदं समे- ऽपि)स्खलनम् । अलममुना संप्रमेण । संवृणु क्षोभविगलितस्तना- मु(शोकम् । अस्थान एव विसंस्थुलीभूतमात्मानं गच्छ गेहम्' इति । सा तु तत्करग्रहणसमकालमेवोत्थितेन सरभसाकृष्टधनुषा कुसुमसायकेन कृतसाहसिकेनेव दूरमपसारितसाध्वसा सविनमोल्लासितैकभ्रुवा गुरुणेव नवानुरागेण कारितप्रगल्भकलालापपरिचया चिरकाललब्धावसरमा विदग्धसख्येव तत्समागमतृष्णया स्थापिता स्वयं दूतीवृतविधौ निसर्ग, मुग्धापि प्रौढवनितैव किंचिद्विहस्य वचनमिदमुदीरितवति—'कुमार- त्वया गृहीतपाणिः कथमहं विसंस्थुलीभूतमात्मानं संवृणोमि, कथं च गेहादितो गृहान्तरं गच्छामि । सांप्रतमिदमेव मे त्वदीयं सदनमा- श्रयः संवृत्तः इत्युक्त्वा त्रयावनतवदना पुरःप्रस्तधवलनखमयूखोयो- तया तदीयवकालापश्रवणजातहासयेव वामचरणाङ्गुष्ठलेखया मन्दम- न्दमलिखत्कुट्टिमम् । असावपि युवा तेन तस्याः स्मरविकारदर्शनेन तेन तत्कालमतिशये स्पृहणीयतां गतेन रूपलावण्यादिगुणकलापेन तेनामृतस्पन्दशीतलेन करतलस्पर्शेन तेन च प्रकटितानुरागेण निपु- णया वचनमया कृतेनात्मसमर्पणेन परमरस्त । सहासवदनश्च मन्दमाश्लिष्य तामानन्दमुकुलायमानलोचनोत्पलां परिषद(१)वकपोलोदरेण कपोलेन 'सुन्दरि, यदि न यातव्यं गृहान्तर- मिति निश्चयस्ते, ततः किम् । एकेन गृहेम द्रविणसंग्रहो रखानि १. पाणिग्रहणस संतत्वाद.