पृष्ठम्:तिलकमञ्जरी.pdf/१६३

एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। देशविडम्बी दक्षिणतः प्रतिक्षणमुदञ्चता फणचक्रवालरबरागपटलेन क्रमनिपीतकल्लोलकालिमा पातुमनिलमुद्यतस्य कस्यचिन्महाहेरुद्गम- नशंसी सागरोद्देशस्तटमिव पुरस्तरङ्गैरुल्लसद्भिरुद्भाव्यते । कुरुत वंशक्षेपमन्तर्वारि दुर्वात इव दृश्यते, मुकुलयत सितपटरज्जुजालमग्रतो विस्तारिमत्स्य इव वहति । लम्बयत नागरानविलम्बितं मित्राणि मन्दोऽतिमात्रं मरुत्प्रलम्बैर्बाहुभिः । वाहयत सत्वरमरित्राणि । मकरक, मनागुदञ्चय मार्गतटरुहश्चन्दनतरोरस्य तिरश्चीमुपरिशाखाम् , मूर्ख, किमधोमुखं स्थितोऽसि । मुधावधानहस्त एनं मण्डूकमणिमवश्यं न दश्यसे दन्दशूकैः । सकुलक, विधेहि वेदो द्वारिणः । सकुलम केलिमु“रक्ततेलपङ्कमग्नमूलामिमां नावम् । अधीर, मावधीरय मद्वचः । विचर निराकुलो नक्रवशयाश्चितलोचनस्य स्थलं ते सकलम- म्बुधिजलं सम्बूकषाढं प्रचलायसेन चेतयसि ग्राहेणापि गृह्यमाणचरणः, चेतसि कृतं वैलक्ष्येण क्षालय क्षौरेण सामुद्रेण वारिणा वारं वारमायास्यति द्रागेव निद्रासहेक्षणाभ्यां क्षयं राजिलक तर्जितोऽपि नोपरमसि प्रगुणयायिनीमपि नावमागस्तीं गतिं ग्राहयस्यस्ति कश्चिन्न ते दिब्योहो यद्युदाहृतामप्यहृदय न जानास्युत्तराशावर्तनीं प्रवर्तनीम् । प्रवर्तय दृष्ट्वा दृष्ट्वा सप्तर्षिमण्डलमित्यादि साध्वसकरं च कर्तव्योपदेशपरं प्रार्थनं च सपरिहासं च जल्पतावसरेषु नीयमानात्क्वचिच्चिरकाल- संगलनसान्द्राणि, कदाचिदप्यदलितानि यानपात्रैः पाटयन्ती शुकहरेति शैवलपटलानि, क्वचित्सांयात्रिकप्रचारविरहादतिस्फीततां गतैरहरहः स्फुटतां शुक्तिसंपुटानां मुक्ताफलैर्निरन्तरनिचितेषु सैकतेषु सुखप्रसुप्तानि प्रबोधयन्ती जलमानुषमिथुनानि क्वचिद्दूरत एवं श्रूयमाणमुखरपक्षि- रवाणिसंभ्रमोत्पतनसविशेषविततदेहायामानि जलनिधिमध्यशायीनि