पृष्ठम्:तिलकमञ्जरी.pdf/१८५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला। तस्य शैशवाभ्यस्तनिरखद्यशमशास्त्रविद्यस्य यौवनारम्भरमसप्रसाधित- पूर्वापरपयोधिमर्यादमेदिनीमण्डलस्य नित्यमभिनवानांखण्डलस्येव नन्द- नोपवनपादपानासेवमानस्य पञ्चप्रकारानपि विषयानतिक्रान्ते कियत्यपि काले रूपतुलितसकलसुरसिद्धखेचराङ्गणमनेकैदेवतोपयाचितशतैरति- शुभखमसूचितावतारमुदारविद्याधरवंशसंभवायामङ्गलावण्यलक्ष्मीलघूक- तरतिरूपसंपत्तौ पत्रलेखाभिधानायां महादेव्यामेकमखिलत्रैलोक्यति- लकस्तिलकमञ्जरीनामधेयं कन्यकारत्नमुत्पन्नम् । यस्य रूपलव एष लावण्यनिधिना चित्रपटसंक्रान्तः कृतार्थीकृतो दृष्टिपातप्रसादेन। सा चेयं देवी जन्मदिनमहोत्सवश्रिया विश्राणितोम- यश्रेणिचरखेचरगणानन्दा पाञ्चालिकाकन्दकदुहितृकाविवाहगोचराभिः शिशुक्रीडाभिरतिवाहितसर्वलोकस्पृहणीयबालभावा बहुलेतरपक्षे शशि- लेखेव प्रत्यहमपरापरासु कलासु परिचयं कुर्वाणा, क्रमेण कुसुमबाण- केलिकाननं यौवनमनुप्राप्ता, संप्रति च दृष्टविनयदाक्षिण्यशीलत्रपादि- बैणगुणगणद्विगुणितापत्यप्रीतिना जनकेन योग्या इति भाजनीकृता समनाया अपि निजविभूतेरनुमोदिता च खेच्छाविहाराय धृतविदग्ध- वेषविद्याधरीवृन्दपरिवृता पुरः प्रधावता प्रान्तचलितानेकरूपचिह्नकापडु- ततपनमण्डलेन मायूरातपत्रवनेन कुलिशत्राससंकुचितसुरशैलशिखराकारं कनकमयं विमानमारूढा, गत्वा सत्वरं गगनमार्गेण, कदाचिदक्षिणा- वतरणताडिततरुणताडीतरुषु संभोगलालसभुजङ्गललनासततसंकुलक- माललवलीलतागुल्मेषु मलयतटवनेषु विचरति, कदाचिदासक्तकनका- म्बुजरजोराजिपिञ्जरपलायमानकलहंसकुलेषु मानससरःसलिलेषु कूला- सीनसकुतूहलकुबेरकुलकुमारावलोकिता मज्जनकेलिमनुभवति, कदा- चिदितस्ततः प्रवृत्तपतनुसुरनिमगासोतःसूत्रसीमन्तितशिखेषु नीहार-