पृष्ठम्:तिलकमञ्जरी.pdf/१९३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला बदसावायतेक्षणा भूमिगोचरनृपाधिपात्मजप्रणयिनी भविष्यतीति वार्तयापि श्रुतया हर्षमुद्रहामि । सत्खपि रूपलावण्ययौवनशालिष्वपरेषु भूपालदारकेषु कालान्तरभुवस्तदनुरागस्यात्मानमेव लक्षीकरोमि । काहम् , क सा, क भूमिगोचरस्य निकेतनं साकेतनगरम् , क दिव्यसङ्गसमुचि- लाचलपस्यसंखं स्थनूपुरचक्रवालम् । अपि च विवेकिना विचारणीयं वस्तुतत्वम् । नोज्झितव्यो निजावष्टम्भः । स्तम्भनीयं मनः । असरदपयो नदेयमप्रणीत्वमिन्द्रियगणस्येत्यपि न गणयामि । असौ पुनरपरा विडम्बना यदयमात्मा मदनदाहोपशमाय प्रशममार्गमवतारितोऽप्यघो- गति रागिणस्तदङ्गियुगलस्यालोचयति न प्राणिजातस्य । कदलीस्तम्भ- तुल्यतां तदूरुपरिणाहस्य विमृशति न देहनिःसारताया हृदयवासिमिः। सङ्गो दुःखहेतुरित्यलब्धविवरं तत्पयोधरद्वन्द्वमवधारयति न कलत्र- पुत्रादिवर्गम् । मध्यस्था तन्नाभिमुद्रामभिनन्दति न भावनाम् । मधुरं मुखे तदधरमवालं ध्यायति न भोगसौख्यम् । युगान्तविललितक्षीर- सागरसमं तदक्षिविस्तारमुत्प्रेक्षते न संसारम् । आरोपितानचापमकरं तलता ललितमध्येति न विधेर्विलसितम् । अन्या अपि प्रकृष्टरूपला- वण्यवत्यः प्राप्तयौवना दृष्टाः क्षितिपकन्याः । अन्यासामपि श्रुतस्तत्त्व- वेदिभिरनेकपा निवेयमानो विलासक्रमः । न तु कयापि काप्यपहवं येतो यथानया । कथमिदानीमासितव्यम् । किं प्रतिपत्तव्यम् । केन विधिना विनोदनीयेयमनुदिनं प्रवर्धमाना तद्दर्शनोत्कण्ठा । कस्यावेद- नीयमिदमात्मीयं दुःखम् । केन सार्षमालोचनीयं कर्तव्यम् । कस ऋमिष्यते तद्देशगमनोपायेषु बुद्धिः । कस्स साहायकेन सेत्स्यति तथा सह समागमप्राप्तिः । अपि नाम दैवमनुगणं स्वादेष्यति स विद्याधर दारकः । न विमरिष्यति परिचयम् । करिष्यति पक्षपातम् । द्रक्ष्यति